Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 126
________________ Vol. XVIII, '92-93 119 तथासन्नमेघवृष्टौ शम्या अवक्षरणं, तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणं, तथा लज्जालूप्रभृतीनां हस्तादिसंस्पर्शात् पत्रसङ्कोचादिका परिस्फुटा क्रियोपलोभ्यते । अथवा सर्ववनस्पतेर्विशिष्टर्तुष्वेव फलप्रदानम् । न चैतदनन्तराभिहितं तरुसंबन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात् सिद्धं चेतनाक्त्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादिच्छिन्नं विशोषमुपगच्छद् दृष्टं, न चाचेतनानामयं धर्म इति । तथा यथा मनुष्य शरीरं स्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं, एवं वनस्पतिशरीरमपि भजलाद्याहाराभ्यवहारादाहारकं न चैतदाहारकत्वमचेतनानां दष्टम, अतस्तदर्भ दृष्टम्, अतस्तद्भावात्सचेतनत्वमिति। तथा यथा मनुष्य शरीरं नियतायुष्कं तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीरमिष्टानिष्टाहारादिप्राप्त्या वृद्धिहान्यात्मकं, तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीस्य तत्तद्रोगसंपर्कादोमपाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलिनासिकानिम्नीभवनविगलनादि, तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगाद्यन्यथाभवनपतनादि । तथा यथा मनुष्यशरीरस्यौषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि, तथा वनस्पतिशरीरस्यापि । तथा यथा मनुष्यशरीरस्य रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिरसबलोपचयादि, तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्धत्वादि । तथा यथा स्त्रीशरीरस्य तथाविधदौहृदपूरणात् पुत्रादिप्रसवनं, तथा वनस्पतिशरीरस्यापि तत्पूरणात् पुष्पफलादिप्रसवनमित्यादि । तथा च प्रयोगो - वनस्पतयः सचेतनाः बालकुमारवृद्धावस्था - (१) प्रतिनियतवृद्धि - (२) स्वापप्रबोधस्पर्शादिहेतुकोल्लाससङ्कोचाश्रयोपसर्पणादिविशिष्टानेकक्रिया - (३) छिन्नावयवम्लानि - (४) प्रतिनियतप्रदेशाहारग्रहण (५) वृक्षायुः (६) अभिहितायुष्के- ष्विष्टानिष्टाहारादिनिमित्तकवृद्धिहानि - (७) आयुर्वेदोदिततनूरोग (८) विशिष्टौषधप्रयोगसंपादितवृद्धिहानिक्षतभुग्नसंरोहण - (९) प्रतिनियतविशिष्टशरीररसवीर्यस्निग्धत्वरूक्षत्व (१०) विशिष्टदोहद - (११) आदिमत्त्वान्यथानुपपत्तेर्विशिष्टस्त्रीशरीरवत् । __ अथवैते हेतवः प्रत्येकं पक्षेण सह प्रयोक्तव्याः । अयं वा संगृहीतोक्तार्थप्रयोगः-सचेतना वनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् । अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तद्दधीत्यादिव्यपदेशदर्शनाद् दध्यादिभिरचेतनैर्न व्यभिचारः शङ्क्यः । तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् आप्तवचनात्सर्वषां सात्मकत्वसिद्धिरिति । द्वीन्द्रियाः शङ्खशुक्तिकादयः, त्रीन्द्रियाः पिपीलिकादयः, चतुरिदन्द्रिया मक्षिकाभ्रमरपतङ्गादयः, पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूर्छजाश्चेति ॥ ३ ॥ एतद्विपरीतोऽजीवः ॥ ४ ॥ स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः ॥ ५ ॥ तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽपिद्रव्यमस्तिकायोऽसङ्ख्यप्रदेशो गत्युपग्रहकारी च । १ ॥ ६ ॥ अधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्यप्रदेशः स्थित्युपग्रहकारी च । २ ॥ ७ ॥ आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमव्यस्थितमरूपिद्रव्यमस्तिकायोऽवगाहोपकारकं च वक्तव्यम् । ३ ॥ ८ ॥ कालोऽर्द्धतृतीयद्वीपान्तर्वर्ती परमसूक्ष्मो निर्विभागः एकः समयः ॥ ९ ॥ स चास्तिकायो न भण्यते, एकसमयस्पस्य तस्य निष्प्रदेशत्वात् ॥ १० ॥ आह च - 'तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच्च स कायो न भवति, कायो हि समुदायः ॥" स च सूर्यादिग्रहनक्षत्रोदयास्तादिक्रियाभिव्यङ्ग्यः एकीयमतेन द्रव्यमभिधीयते । स चैकः समयो द्रव्यपर्यायोभयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमत्पादव्ययधर्मापि स्वरूपानन्यभतक्रमाक्रमभाव्यनाद्यपर्यवसानानन्तसङ्ख्यपरिणामोऽत एव च स स्वपर्यायप्रवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते, अतीतानागतवर्तमानावस्थास्वपि

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172