________________
Vol. XVIII, '92-93
119 तथासन्नमेघवृष्टौ शम्या अवक्षरणं, तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणं, तथा लज्जालूप्रभृतीनां हस्तादिसंस्पर्शात् पत्रसङ्कोचादिका परिस्फुटा क्रियोपलोभ्यते । अथवा सर्ववनस्पतेर्विशिष्टर्तुष्वेव फलप्रदानम् । न चैतदनन्तराभिहितं तरुसंबन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात् सिद्धं चेतनाक्त्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादिच्छिन्नं विशोषमुपगच्छद् दृष्टं, न चाचेतनानामयं धर्म इति । तथा यथा मनुष्य शरीरं स्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं, एवं वनस्पतिशरीरमपि भजलाद्याहाराभ्यवहारादाहारकं न चैतदाहारकत्वमचेतनानां दष्टम, अतस्तदर्भ
दृष्टम्, अतस्तद्भावात्सचेतनत्वमिति। तथा यथा मनुष्य शरीरं नियतायुष्कं तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीरमिष्टानिष्टाहारादिप्राप्त्या वृद्धिहान्यात्मकं, तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीस्य तत्तद्रोगसंपर्कादोमपाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलिनासिकानिम्नीभवनविगलनादि, तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगाद्यन्यथाभवनपतनादि । तथा यथा मनुष्यशरीरस्यौषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि, तथा वनस्पतिशरीरस्यापि । तथा यथा मनुष्यशरीरस्य रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिरसबलोपचयादि, तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्धत्वादि । तथा यथा स्त्रीशरीरस्य तथाविधदौहृदपूरणात् पुत्रादिप्रसवनं, तथा वनस्पतिशरीरस्यापि तत्पूरणात् पुष्पफलादिप्रसवनमित्यादि । तथा च प्रयोगो - वनस्पतयः सचेतनाः बालकुमारवृद्धावस्था - (१) प्रतिनियतवृद्धि - (२) स्वापप्रबोधस्पर्शादिहेतुकोल्लाससङ्कोचाश्रयोपसर्पणादिविशिष्टानेकक्रिया - (३) छिन्नावयवम्लानि - (४) प्रतिनियतप्रदेशाहारग्रहण (५) वृक्षायुः (६) अभिहितायुष्के- ष्विष्टानिष्टाहारादिनिमित्तकवृद्धिहानि - (७) आयुर्वेदोदिततनूरोग (८) विशिष्टौषधप्रयोगसंपादितवृद्धिहानिक्षतभुग्नसंरोहण - (९) प्रतिनियतविशिष्टशरीररसवीर्यस्निग्धत्वरूक्षत्व (१०) विशिष्टदोहद - (११) आदिमत्त्वान्यथानुपपत्तेर्विशिष्टस्त्रीशरीरवत् । __ अथवैते हेतवः प्रत्येकं पक्षेण सह प्रयोक्तव्याः । अयं वा संगृहीतोक्तार्थप्रयोगः-सचेतना वनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् । अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तद्दधीत्यादिव्यपदेशदर्शनाद् दध्यादिभिरचेतनैर्न व्यभिचारः शङ्क्यः । तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् आप्तवचनात्सर्वषां सात्मकत्वसिद्धिरिति ।
द्वीन्द्रियाः शङ्खशुक्तिकादयः, त्रीन्द्रियाः पिपीलिकादयः, चतुरिदन्द्रिया मक्षिकाभ्रमरपतङ्गादयः, पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूर्छजाश्चेति ॥ ३ ॥
एतद्विपरीतोऽजीवः ॥ ४ ॥ स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः ॥ ५ ॥ तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽपिद्रव्यमस्तिकायोऽसङ्ख्यप्रदेशो गत्युपग्रहकारी च । १ ॥ ६ ॥ अधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्यप्रदेशः स्थित्युपग्रहकारी च । २ ॥ ७ ॥
आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमव्यस्थितमरूपिद्रव्यमस्तिकायोऽवगाहोपकारकं च वक्तव्यम् । ३ ॥ ८ ॥
कालोऽर्द्धतृतीयद्वीपान्तर्वर्ती परमसूक्ष्मो निर्विभागः एकः समयः ॥ ९ ॥
स चास्तिकायो न भण्यते, एकसमयस्पस्य तस्य निष्प्रदेशत्वात् ॥ १० ॥ आह च - 'तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच्च स कायो न भवति, कायो हि समुदायः ॥" स च सूर्यादिग्रहनक्षत्रोदयास्तादिक्रियाभिव्यङ्ग्यः एकीयमतेन द्रव्यमभिधीयते । स चैकः समयो द्रव्यपर्यायोभयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमत्पादव्ययधर्मापि स्वरूपानन्यभतक्रमाक्रमभाव्यनाद्यपर्यवसानानन्तसङ्ख्यपरिणामोऽत एव च स स्वपर्यायप्रवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते, अतीतानागतवर्तमानावस्थास्वपि