________________
118
SAMBODHI जलेषूष्णस्पर्श उष्णस्पर्शवस्तुप्रभव उष्णस्पर्शत्वात्, मनुष्यशरीरोष्णस्पर्शवत् । न च जलेष्वयमुष्णः स्पर्शः सहजः, अप्सु स्पर्शः शीत एवेति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्फीते निपतति प्रातस्तटाकादेः पश्चिमस्यां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते तदा तज्जलान्निर्गतो बाष्पसंभारो दृश्यते सोऽपि जीवहेतुक एव। प्रयोगस्त्वित्थं - शीतकाले जलेषु बाष्प उष्णस्पर्शवस्तुप्रभवो बाष्पत्वात् । शीतकाले शीतलजलसिक्तमनुष्यशारीरबाष्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य बाष्पस्य च निमित्तमुष्णस्पर्श वस्तु तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यम् । जलेष्वऽन्यस्योष्णस्पर्शबाष्पयोनिमित्तस्य वस्तुनोऽभावात् । न च शीतकाले उत्कुरुडिकाऽवकरतलगतोष्णस्पर्शेन तन्मध्यनिर्गतबाष्पेन च प्रकृतहेतोर्व्यभिचारः शङ्क्यः । तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्वाभ्युपगमात् ।
ननु मृतजीवानां शरीराणि कथमुष्णस्पर्शबाष्पयोर्निमित्तीभवन्तीति चेत् ? उच्यते । यथाऽग्निदग्धपाषाणखण्डिकासु जलप्रेक्षेपे विध्यातादप्यग्नेरुष्णस्पर्शबाष्पौ भवेतां तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाष्पोष्णस्पर्शयोर्निमित्तं सचित्तमचित्तं वा यथासम्भवं वक्तव्यम् । इत्थमेव शीतकाले पर्वतनितम्बस्य निकटे वक्षादीनामधस्ताच्च य ऊष्मा संवेद्यते सोऽपि मनुष्यवपुरूष्मावज्जीवहेतरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजसशरीररूपाग्नेर्मन्दीभवनात् जलादिषु यः शीतलस्पर्शः सोऽपि मानुषशरीरशीतलस्पर्शवज्जीवहेतुकोऽभ्युपगमनीयः । तत एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यप्कायाः २ ॥ ___ यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोगनिर्वृतशक्तिराविश्चकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टप्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, एषैवोपमाऽऽग्नेयजन्तूनाम् । न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते । एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता ज्ञेया। प्रयोगश्चात्र आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः शरीरस्थत्वात्, खद्योतदेहपरिणामवत् १ । तथा आत्मसंयोगपूर्वकोऽङ्गारादीनामूष्मा शरीरस्थत्वात्, ज्वरोष्मवत् । न चादित्यादिभिरनेकान्तः, सर्वेषामुष्णस्पर्शस्यात्मसंयोगपूर्वकत्वात् २ । तथा सचेतनं तेजो यथायोग्याहारोपादानेन वृद्ध्यादिविकारोपलम्भात् पुरुषवपुर्वत् ३ । एवमादिलक्षणैराग्ननेयजन्तवोऽसेयाः । ३ ।।
यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणां वाजजनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षषाऽनुपलभ्यमानमपि विद्यमानं चेतनावच्चध्यवसीयते । एवं वायावपि चक्षाहयं रूपं न भवति. सक्षमपरिणामात. परमाणोरिव वहनिदग्धपाषाणखण्डिकागताऽचित्ताग्नेरिव वा । प्रयोगश्चायं - चेतनावान् वायुरपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वात्, गवाश्वादिवत् १ । तिर्यगेव गमननियमात् अनियमितविशेषणोपादानाच्च परमाणुना न व्यभिचारस्तस्य नियमितगतिमत्त्वात् जीवपुद्गलयोरनुश्रेणि गतिः' इति वचनात् । एवं वायुरशस्त्रोपहतश्चेतनावानगवगन्तव्यः ४ ॥
बकुलाशोकचम्पकाद्यनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाजि भवन्ति । तथाहि - यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषत्वात् चेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदं वनस्पतिशरीरमनवरतं बालकुमारयुवावस्थाविशेषैः प्रतिनियं वर्द्धते, तथेदमपि वनस्पतिशरीरमङ्कुरकिशलयशाखाप्रशाखादिविशेषैः प्रतिनियतं वर्द्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पतिशरीरमपि, यतः शमीप्रपुन्नाटसिद्धेरसकासुन्दकवच्छूलागस्त्यामलकीकडीप्रभृतीनां स्वापविबोधतस्तद्भावः । तथाऽधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं, तथा वटपिप्पलनिम्बादीनां प्रावृट्जलधरनिनादशिशिरवायुसंस्पर्शादङ्कुरोद्भेदः, तथा मत्तकामिनीसनूपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्भेदः, तथा युवत्यालिङ्गनात् पनसस्य, तथा सुरभिमदिरागण्डूकसेकाद्बकुलस्य, तथा सुरभिनिर्मलजलसेकाच्चम्पकस्य, तथा कटाक्षवीक्षणात्तिलकस्य, तथा पञ्चमस्वरोद्गारात् शिरीषस्य विरहकस्य च पुष्पविकिरणं, तथा पद्मादीनां प्रातर्विकसनं, घोषातक्यादिपुष्पाणां च सन्ध्यायां, कुमुदादीनां तु चन्द्रोदये,