________________
117
Vol. XVIII, '92-93 परशरीरेऽप्यस्त्यात्मा इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वशरीरे । दृश्यते च परशरीरे इष्टानिष्टयोः प्रवृत्तिनिवृत्ती, तस्मात्तत्सात्मकं, आत्माभावे तयोरभावात्, यथा घटे ॥ ९ ॥
नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव, निषेधशब्दत्वात्, यथा नास्त्यत्र घट इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र, इह यस्य निषेधः क्रियते तत् क्वचिदस्त्येव, यथा घटादिकं, निषिध्यते च भवता, तस्मादस्त्येवासौ । यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते, यथा पञ्चभूतातिरिक्तषष्ठभूतस्येति ॥ १० ॥
स च द्विविधो मुक्तः सांसारिकश्च । तत्र मुक्तः सकलकर्ममलक्षयभाग् एकप्रकारः । सांसारिकश्चतुर्विधः सुरनारकमनुष्यतिर्यग्भेदात् । तत्र सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः । नारका रत्नप्रभापृथिव्याद्यधिकरणभेदेन सप्तधा । मनुष्या द्विप्रकारा गर्भजसम्मूर्छजभेदात् । तिर्यचोऽप्येकद्वित्रिचतुःपञ्चेन्द्रियभेदात्पञ्चविधाः ॥
तत्रैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पञ्चप्रकाराः ।
ननु भवतु जीवलक्षणोपेतत्वाद् द्वीन्द्रियादीनां जीवत्वं, पृथिव्यादीनां तु जीवत्वं कथं श्रद्धेयम् ? व्यक्ततल्लिङ्गस्यानुपलब्धेरिति चेत् ? सत्यम् । यद्यपि तेषु व्यक्तं जीवलिङ्गं नोपलभ्यते तथाप्यव्यक्तं तत्समुपलभ्यत एव । यथा हत्पूरव्यतिमिश्रमदिरापानादिभिर्मूर्छितानां व्यक्तलिङ्गाभावेऽपि सजीवत्वमव्यक्तलिङ्गळवहियते, एवं पृथिव्यादीनामपि सजीवत्वं व्यवहरणीयम् । ननु मूर्छितेषूच्छ्वासादिकमव्यक्तं चेतनालिङ्गमस्ति, न पुनः पृथिव्यादिषु तथाविधं किञ्चिच्चेतनालिङ्गमस्ति । नैतदेवम् । पृथिवीकाये तावत् स्वस्वाकारावस्थितानां लवणविदुमोपलादीनां समानजातीयाङ्कुरोत्पत्तिमत्त्वम्, अर्शीमांसाङ्करस्येव चेतनाचिह्नम्, अस्त्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्या । वनस्पतेश्च चैतन्यं विशिष्टतुफलप्रदत्वेन स्पष्टमेव, साधिष्यते च । ततोऽव्यक्तोपयोगादिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम् । प्रयोगश्च - विदुमशिलादिरूपा पृथिवी सात्मिका छेदे समानधातूत्थानात्, अर्शोङ्कुरवत् । ननु च विदुमपाषाणादिपृथिव्याः कठिनपुद्गलात्मिकायाः कथं सचेतनत्वमिति चेन्नैवम् । उच्यते-यथाऽस्थि सरीरानुगतं सचेतनं कठिनं च दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जीवशरीराणि छेद्यभेद्योक्षिप्यभोग्यधेयरसनीयस्पृश्यद्रव्यत्वात् सास्नाविषाणादिसङ्घातवत् । न हि पृथिव्यादीनां छेद्यत्वादि दृष्टमपह्नोतुं शक्यम् । न च पृथिव्यादीनां जीवशरीरत्वमनिष्टं साध्यते, सर्वपुद्गलद्रव्यस्य द्रव्यशरीरत्वाभ्युपगमात् ।
जीवसहितत्वाऽसहितत्वं च विशेषः । अशस्त्रोपहतं पृथिव्यादिकं कदाचित्सचेतनं, सङ्घातत्वात्, पाणिपादसङ्घातवत् । तदेवं, कदाचित्किञ्चिदचेतनमपि, शस्त्रोपहतत्वात्, पाण्यादिवदेव । न चात्यन्तं तदचित्तमेवेति ॥ १ ॥
अथ नाप्कायो जीवस्तल्लक्षणायोगात्प्रश्रवणादिवदिति चेन्नैवं, हेतोरसिद्धत्वात् । तथा हि – हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टमेवमप्कायिकस्यापि । यथा वाऽण्डके रसमात्रसमं जातावयवमनभिव्यक्तचञ्च्वादिप्रविभागं चेतनावद् दष्टम् । एषौवोपमाऽब्जीवानामपि । प्रयोगश्चायं - सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीरोपादानभूतकललवत् । हेतोर्विशेषणोपादानात्प्रश्रवणादिव्युदासः १।
तोयमनपहतद्रवत्वाद अण्डकमध्यस्थितकललवदिति २ । इदं वा प्राग्वज्जीवच्छरीरत्वे सिद्धे सति प्रमाणम् । सचेतना हिमादयः क्वचिदपकायत्वादितरोदकवदिति ३ । तथा क्वचन चेतनावन्त्यापः खातभूमिस्वाभाविकसम्भवात् दर्दुरवत् ४ । अथवा सचेतना अन्तरिक्षोद्भवा आपोऽभ्रादिविकारे स्वत एव सम्भूयपातात् मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिष्वल्पेऽल्पो बही बहुर्बहुतरे च बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरमिलितमनुष्यशरीरेष्वल्पबहुबहुतरोष्मवत् । शीतकाले