________________
116
SAMBODHI
कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥ ५० ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिस्ढात शब्दस्तद्विपर्ययानयायित्वात्प्रभतविषयः ॥ ५१ ॥ प्रतिक्रियं विभिन्नमर्थं प्रतिजाननादेवंभूतात्समभिस्ढस्तदन्यथाऽर्थस्थापकत्वान्महागोचरः ॥ ५२ ॥ नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयमिति ॥ ५४ ॥
(इति सप्तमः परिच्छेदः ॥ )
(अथाष्टमः परिच्छेदः ।) अथोत्पादव्ययधौव्ययुक्ताः पदार्थाः ॥ १॥ ते चादीपमाव्योम समस्वभावाः ॥ २ ॥
तत्र चैतन्यलक्षणः परिणामी ज्ञाानादिधर्मभिन्नाभिन्नः कर्ता साक्षाद्भोक्ता स्वदेहपरिणाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः ॥ ३ ॥ चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्यासौ चैतन्यलक्षणः १ । परिणमनं सुरनारकादिष्वपरापरायेषु गमनं प्रतिसमयपरापरपर्यायेषु गमनं वा परिणामः, स नित्यमस्यास्तीति परिणामी २ । ये ज्ञानदर्शनचारित्रसुखदुःखवीर्यभव्याभव्यत्वद्रव्यत्वप्रमेयत्वप्राणधारित्वक्रोधादिपरिणततत्वसंसारित्वसिद्धत्वपरवस्तुव्यावृत्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, ते ज्ञानादयो धर्मा उच्यन्ते । तेभ्यो जीवो न भिन्नो नाप्यभिन्नः, किं तु जात्यन्तरतया भिन्नाभिन्नः । यदि हि ज्ञानादिधर्मेभ्यो जीवो भिन्नः स्यात्तदाहं जानामि अहं पश्यामि अहं ज्ञाताऽहंद्रष्टाऽहं सुखितोऽहं भव्यश्चेत्याद्यभेदप्रतिभासो न स्याद, अस्ति च सर्वप्राणिनां सोऽभेदप्रतिभासः । तथा यद्यभिन्नः स्यात्तदायं धर्मी एते धर्मा इति भेदबुद्धिर्न स्याद. अस्ति च सा । अथवा अभिन्नतायां ज्ञानादिसर्वधर्माणामैक्यं स्यादेकजीवाभिन्नत्वात । ततः च मम ज्ञानं मम दर्शनं चास्तीत्यादिज्ञानादिमिथोभेदबुद्धिर्न स्याद्, अस्ति च सा । तथा ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः ३ । करोत्यदृष्टादिकमिति कर्ता ४ । साक्षादनुपचरितवृत्त्या भुङ्क्ते सुखादिकमिति साक्षाद्भोक्ता ५ । स्वोपात्तवपुर्व्यापकः स्वदेहपरिमाणः ६ । प्रतिक्षेत्रं पृथक् प्रतिशरीरं भिन्नः ७ । पुद्गलघटितकर्मपरतन्त्रः पौद्गलिकाऽदृष्टवान् ॥
जीवः प्राणभाक्, प्राणाश्च द्रव्यभावभेदाद् द्विविभेदाः, तत्र द्रव्यप्राणाः पञ्चेन्द्रियत्रिविधबलोच्छ्वासनिःश्वासायूरूपाः । भावप्राणास्तु ज्ञानदर्शनोपयोगरूपाः । एभिः प्राणैरजीवद् जीवति जीविष्यति चेति जीवः । आत्मा प्रत्यक्षादिगम्यः गुणप्रत्यक्षत्वात् । प्रयोगश्च - आत्मा प्रत्यक्षः स्मृतिजिज्ञासाचिकीर्षाजिगमिषासंशयविज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो यथा घट इति । प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः । अनुमानगम्योऽपि, यथा जीवच्छरीरं प्रयत्नवताधिष्ठितमिच्छानुविधायिक्रियाश्रयत्वात् १ । श्रोत्रादीन्युपलब्धिसाधनानि कर्तृप्रयोज्यानि, करणत्वात्, कुठारादीव २ । देहस्यास्ति विधाता, आदिमत्प्रतिनियताकारत्वात्, घटवत् । यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽभ्रविकारः । यश्च देहस्य कर्ता स जीवः ३ । तथा इन्द्रियाणामस्त्यधिष्ठाता, करणत्वात्, यथा दण्डचक्रादीनां कुलालः ४ । विद्यमानभोक्तकं शरीरं, भोग्यत्वात्, भोजनवत् । यश्च भोक्ता स जीवः ५ । तथा रूपादिज्ञानं क्वचिदाश्रितं, गुणत्वात्, रूपादिवत् ६ । तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं, कार्यत्वात्, घटादिवत् ७ । तथा प्रतिपक्षवानयमजीवशब्दः, व्युत्पत्तिमत्, शुद्धपदप्रतिषेधात् । यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान्, यथाऽघटो घटप्रतिपक्षवान् । अत्र हि अघटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य निषेधोऽतोऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यम् । यस्तु न प्रतिपक्षवान् न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो, यथा अखरविषाणशब्दः अडित्थ इति वा ॥ ८ ॥ तथा स्वशरीरे स्वसंवेदनप्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतोदृष्टानुमानेन साध्यते यथा