________________
Vol. XVIII, '92-93
115 समभिरोहन समभिरूढः । शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रेति । समभिरूढस्तु पर्यायभेदे भिन्नानानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते ॥ ३६ ॥
यथा इन्दनादिन्द्रः, शकनात्शक्रः, पूर्दारणात्पुरन्दर इत्यादिषु ॥ ३७ ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ ३८ ॥
यथा इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गशब्दवदित्यादि ६ ॥ ३९ ॥
क्रियाश्रयेण भेदप्रस्पणमेवम्भूतः ॥ ४० ॥ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४० ॥
यथेन्द्रनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः ॥ ४२ ॥
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्, पटवदित्यादि ७ ॥ ४३ ॥ .
अत्र संग्रहश्लोकाः - “अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्पतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् सङ्ग्रहो मतः ॥ २ ॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् ।। तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ॥ ३ ॥ तत्रर्जुसूत्रनीतिः स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः ॥ ४ ॥ विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ७ ॥ एतेषु प्रथमे चत्वारोऽर्थनिरूपणप्रवणत्वादर्थनयाः ॥ ४४ ॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥ ४५ ॥ पर्वः पर्वो नयः प्रचरगोचरः. परः परस्त परिमितविषयः ॥ ४६ ॥ तत्र सन्मात्रगोचरसङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद् बहुविषयः ॥ ४७ ॥ सद्विशेषप्रकाशकाद् व्यवहारात्, सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः ॥ ४८ ॥ वर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वाद् बहुविषयः ॥ ४९ ॥