________________
120
SAMBODHI कालः काल इत्यविशेषश्रुतेः । यथा होकः परमाणः पर्यायैरनित्योऽपि द्रव्यत्वेन सदा सन्नेव न कदाचिदसत्त्वं भजते तथैकः समयोऽपीति । तथा दव्वपरियट्टरूवो जो सो कालो हवेइ ववहारो। परिणामाइलक्खो वट्टणलक्खो अ परमट्ठों जीवपुद्गलपरिक्तॊ नवपुराणादिस्तेन लक्ष्यः द्रव्यपर्यायरूपो व्यवहारकालः ।
स्वोपादानरूपेण स्वयमेव परिणममानानां भावानां कुम्भकारचक्राधस्तनशिलावत् शीतकालाध्यापनेऽग्निवत् पदार्थपरिणमने यत्सहकारित्वं सा वर्तना सैव लक्षणं यस्य स कालाणुद्रव्यरूपो निश्चयकालः । ततोऽन्यः कालाणुद्रव्यरूपनिश्चयकालो नास्ति । अत्रोत्तरोत्तरमुत्पन्नध्वंसित्वात्समयः पर्यायः, पर्यायो द्रव्यं विना न भवति । उक्तं च - "द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क्व कदा केनचित्किंवा दृष्टा मानेन केन वा । ततः समयरूपपर्यायोपादानभूतेन कालाणुरूपनिश्चयकालद्रव्येण भाव्यमेव, यथा इन्धनाग्निसहकारिकारणोत्पन्नौदनपर्यायस्य तण्डुलोपादानकारणवत् कुम्भकारचक्रचीवरादिबहिरङ्गनमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानं, नरकादिपर्यायस्य जीवोपादानम् । तदपि कस्मात् ? उपादानकारणसदृशं कार्य भवतीतिवचनात्। अयमनन्तसमयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति, किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुः, निमेषोत्पत्तौ नयनपुटविघटनं, घटिकाकालोत्पत्तौ घटिकासामग्रीभूतजलभृतभाजन-पुरुषहस्तादिव्यापारः, दिवसादौ दिनकरबिम्बमुपादानादिकरणम् । उपादानत्वं च पूर्वाकारपरित्यागाजहवृत्त्युत्तराकारोपादनत्वम्, नैवं उपादानकारणसदृशं कार्यमिति वचनात्कालाणुद्रव्यमेवेति । ४ । ॥ १० ॥
पुद्गलाः स्पर्शरसगन्धवर्णवन्तः ॥ ११ ॥ अत्र स्पर्शग्रहणमादौ स्पर्श सति रसादिसद्भावज्ञापनार्थम्। ततोऽबादीनि चतुर्गुणानि स्पर्शित्वात् पृथिवीवत्, तथा मनः स्पर्शादिमद, असर्वगतद्रव्यत्वात्, पार्थिवाणुवद् इतिप्रयोगौ सिद्धौ ॥ ११ ॥
तत्र स्पर्शा मूदुकठिनगुरुलघुशीतोष्णस्निग्धस्क्षाः ॥ १२ ॥ अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति । स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः ॥ १२ ॥
रसाः तिक्तकटुकषायाम्लमधुराः ॥ १३ ॥ लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे ॥ १३ ॥
गन्थौ सुरभ्यसुरभी ॥ १४ ॥ कृष्णादयो वर्णाः ॥ १५ ॥ तद्वन्तः पुद्गला इति । न केवलं पुद्गलानां स्पर्शादयो धर्माः शब्दादयश्चेति दर्श्यन्ते ।
शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः । अत्र पुद्गलपरिणामाविष्कारी मतुप प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविस्रसादिजनितः, औदरिकादिशरीरजतुकाष्ठादिश्लेषवत्, परमाणुसंयोगवद्वेति २ । सौक्ष्म्यं सूक्ष्मता ३ । स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५ । भेदः खण्डशो भवनम् ६ । तमश्छायादयः प्रतीताः सर्व एवैते स्पर्शादयः शब्दादयश्च पुद्गलेष्वेव भवन्तीति ।
पुद्गला वेधा परमाणवः स्कन्थाश्च ॥ १६ ॥ तत्र परमाणोर्लक्षणमिदं -
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरससवर्णगन्थो द्विस्पर्शः कार्यलिङ्गश्च १ ॥ १७ ॥
एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड् द्रव्याणि ॥ १८ ॥ एष्वाद्यानि चत्वार्येकद्रव्याणि, जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्त्तानि, पुद्गलास्तु मूर्ती एवति । २ ।
सत्कर्मपुद्गलाः पुण्यं सन्तः, तीर्थकरत्वस्वर्गादिफलनिवर्तकत्वात् ॥ १९ ॥ प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्मवर्गणाः पण्यमित्यर्थः ३ ॥ १९ ॥