________________
121
Vol. XVIII, '92-93 ___ तद्विपरीतं तु पापम् ॥ २० ॥ तुर्भिन्नक्रमे । तस्मात्पुण्याद्विपरीतम् । नरकादिफलनिवर्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ४ ॥ २० ॥
बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आम्रवः ॥ २१ ॥ असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वम् । हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः । कषायः क्रोधादयः । योगा मनोवाक्कायव्यापाराः । बन्धस्य ज्ञानावरणीयादिकर्मबन्धस्य हेतवः कारणानि, आस्रवति कर्म येभ्यः स आम्रवः। ततो मिथ्यात्वादिविषया मनोवाक्कायव्यापारा एवाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः ५ ॥ २१ ॥ ___तन्निरोधः संवरः ॥ २२ ॥ तेषां मिथ्यात्वाविरतिकषाययोगानामासवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिर्भिनिरोधो निवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेधा । तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेषकाले सम्यक्त्वप्रतिपत्तेरारभ्य देशसंवरः ६ ॥ २२ ॥
जीवस्य कर्मणा अन्योन्यानुगमात्मा संबन्धो बन्धः ॥ २३ ॥ तत्र बन्धनं बन्धः, परस्पराश्लेषो जीवप्रदेशपुद्गलानां, क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः ७ ॥ २३ ॥
बद्धस्य कर्मणः शाटो निर्जरा ॥ २४ ॥ बद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादेः, शाटः शाटनं द्वादशविधेन तपसा विचटनं, सा निर्जरा । सा च द्विविधा सकामाकामभेदात् । तत्राद्या चारित्रिणां दुष्करतपश्चरणकायोत्सर्गकरणद्वाविंशतिपरीषहपरीषहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्गरथधारिणां बाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्प्रतिकर्मशरीरिणां भवति । द्वितीया त्वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुस्सहदुःखशतसहस्रसहनतो भवति ॥ ८ ॥
देहादेरात्यन्तिको वियोगो मोक्षः ॥ २५ ॥ देहादेः . शरीरपञ्चकेन्द्रियायुरादिबाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्धत्वादेरात्यन्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद् भवति न पुनः कदाचिन्न भवति स आत्यन्तिकः ।। ____ अत्र परः प्राह-ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य सादित्वात्, परं रागादिभिः सहात्यन्तिको वियोगोऽसंभवी. प्रमाणबाधनात । प्रमाण चेदं. यदनादिमत न तद्विनाशमाविशति, यथाकाशम, अनादिमन्तश्च
इति । उच्यते - यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते । ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निर्मूलमपि क्षयः, निर्मूलक्षयानभ्युपगमेऽपचयस्याप्यसिद्धेः। यथा हि शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्नर्मन्दतायां मन्दा उपलब्धा, उत्कर्षे च निरन्वयविनाशिनः, एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः । ___ अथ यथा ज्ञानावरणीयकर्मोदये ज्ञानस्य मन्दता भवति तत्प्रकर्षे च ज्ञानस्य न निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तमुच्छेदो भविष्यतीति । तदयुक्तम् । द्विविधं हि बाध्यं सहभूस्वभावं सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं तन्न बाधकोत्कर्षे कदाचिदपि निरन्वयं विनाशमाविशति । ज्ञानं चात्मनः सहभस्वभावम् । आत्मा च परिणामिनित्यः । ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्वयो विनाशः । रागादयस्तु लोभादिकर्मविपाकोदयसंपादितसत्ताकाः, ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति । प्रयोगश्चात्र - ये सहकारिसंपाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणः, यथा रोमहर्षादयो वह्निवृद्धौ । भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादयः ।९।।
(इत्यष्टम : परिच्छेद ॥)