________________
122
SAMBODHI
(अथ नवम : परिच्छेद : ।) इति प्रमाणनयतत्त्वं व्यवस्थाप्य वस्तुनिर्णयार्थ वादमाह -
विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः ॥ १ ॥ विरुद्धयोरेकत्र, प्रमाणेनानुपपद्यमानोपलम्भर्योर्द्धर्मयोर्मध्यादिति ॥ १ ॥
तत्प्रारम्भकश्चात्र जिगीषुस्तत्त्तवनिर्णिनीषुश्च ॥ २ ॥ तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते प्रथममेव च तत्त्वनिर्णिनीषुरिति द्वावपि प्रारम्भको भवतः ॥ २ ॥
तत्र स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः ॥ ३ ॥ स्वीकृतो धर्मः शब्दादेः कथंचिन्नित्यत्वादिर्यस्तस्य व्यवस्थापनार्थं यत्सामर्थ्यात्स्यैव साधनं, परस्य च दूषणं ताभ्यां कृत्वा परं पराजेतुमिच्छुर्जिगीषुरित्यर्थः ॥ ३ ॥
तथैव तत्त्वं प्रतिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥ ४ ॥ तथैव स्वीकृतधर्मव्यवस्थानार्थं साधनदूषणाभ्यां शब्दादेः कथंचिन्नित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमिच्छुस्तत्त्वनिर्णिनीषुरित्यर्थः ॥ ४ ॥
अयं च द्वेधा स्वात्मिनि परत्र च ॥ ५॥ अयमिति तत्वनिर्णिनीषुः । कश्चित्खलुपहतचेतोवृत्तिः स्वात्मनि तत्त्वं निर्णेतुमिच्छत्यपरस्तु परानुग्रहिकतया परत्र तथेति द्वेधाऽसौ तत्त्वनिर्णिनीषुः । सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णयं चिकीर्षुरित्यर्थः । तदिदमिह रहस्यम् । परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीषोरानुषङ्गिकं फलं जयो, मुख्यं तु परत्त्वावबोधनम् । जिगीषोस्तु विपर्यय इति ॥ ५ ॥
प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥ ६ ॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥ ७ ॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः ॥८॥
वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारेणाग्रवादोत्तरवादनिर्देशः । साधकबाधकोक्तिगणदोषावधारणं यथावसरं तत्त्वप्रकाशेन कथाविरमणं यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि ॥९॥
उभयोस्तत्तत्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यमित्येकः ॥ १० ॥ स्वात्मनि तत्त्वनिर्णिनीषुः परश्च परत्र द्वौ वा परस्परमित्येवं द्वावपि यदा तत्त्वनिर्णिनीषु भवतः, तदा यावता तत्त्वस्य निर्णयो भवति तावत्ताभ्यां स्फूर्ती सत्यां वक्तव्यम् ॥ १० ॥
अनिर्णये वा यावत्स्फुरति तावद्वक्तव्यम् ॥ ११ ॥ एवं च स्थितमेतत् -
स्वं स्वं दर्शनमाश्रित्य, सम्यक् साधनदूषणैः । जिगीषोर्निर्णिनीषोर्वा वाद एकः कथा भवेत् ॥ १ ॥ भङ्गः कथात्रयस्यात्र निग्रहस्थाननिर्णयः । श्रीमद्ररत्नाकरग्रन्थाद्धीधनैरवधार्यताम् ॥ २ ॥" श्रीहीरविजयसूरीश्वरचरणाम्भोजचञ्चरीकेण । शुभविजयाभिधशिशुना दृब्धा स्याद्वादभाषेयम् ॥ ३ ॥
॥ इति नवमः परिच्छेदः ॥ इति श्रीहीरविजयसूरीश्वरशिष्यपण्डितशुभविजयगणिना श्रीविजयदेवसूरीश्वरनिर्देशात्
प्रमाणनयतत्त्वप्रकाशिकाऽपरनाम्नी स्याद्वादभाषा विरचिता ॥
॥ इति श्रीशुभविजयकृता स्याद्वादभाषा समाप्ता ॥