Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
114
SAMBODHI वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः, इति ॥ १० ॥ धर्मद्वयादीनामेकान्तिकपार्थक्याभिसन्धि गमाभासः ॥ ११ ॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादि १ ॥ १२ ॥
सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ॥ १३ ॥ सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्ग्रहः ॥ १३ ॥
अयमुभयविकल्पः, परोऽपरश्च ॥ १४ ॥ तत्राशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः ॥ १५ ॥ यथा विश्वमेकं सद्विशेषादिति ॥ १६ ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ॥ १७ ॥ यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनादिति ॥ १८ ॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलंबमानः पुनरपरसङ्ग्रहः ॥ १९ ॥ यथा धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादि ॥ २० ॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निनुवानस्तदाभासः ॥ २१ ॥ यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरिति २ सद्विशेषप्रकाशको व्यवहारः ॥ २२ ॥ सझाहेण गोचरीकृतानामर्थानां विधिपूर्वकं विभागेन स्थापनं येनाभिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥ यथा यत्सत्तत् द्रव्यं पर्यायो वेत्यादि ॥ २४ ॥ यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः ॥ २५ ॥ यथा चार्वाकदर्शनमिति । ३ ॥ २६ ॥ पर्यायार्थिकश्चतुर्धा । ऋजुसूत्रः शब्दः समभिस्ढ एवम्भूतश्च ॥ २७ ॥ तत्र शुद्धपर्यायग्राही ऋजुसूत्रः ऋजुर्वर्तमानक्षणस्थायि पर्यायमा प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥ २८ ॥
यथा सुखक्षणः सम्प्रत्यस्तीत्यादि ॥ २९ ॥ सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ यथा ताथागतमतमिति ४ ॥ ३१ ॥
कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥ ३२ ॥ कालादिभेदेन कालकारकलिङ्गसङ्ख्यापुरुषोपसर्जनभेदेनेति ॥ ३२ ॥
यथा बभूव भवति भविष्यति सुमेरुरित्यादि ॥ ३३ ॥ तभेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४ ॥
यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक् सिद्धान्यशब्दवदित्यादि ५ ॥ ३५ ॥
पर्यायध्वनिभेदादर्थनानात्वनिस्पकः समभिस्ढः ॥ ३६ ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172