Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 122
________________ Vol. XVIII, '92-93 115 समभिरोहन समभिरूढः । शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रेति । समभिरूढस्तु पर्यायभेदे भिन्नानानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते ॥ ३६ ॥ यथा इन्दनादिन्द्रः, शकनात्शक्रः, पूर्दारणात्पुरन्दर इत्यादिषु ॥ ३७ ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ ३८ ॥ यथा इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गशब्दवदित्यादि ६ ॥ ३९ ॥ क्रियाश्रयेण भेदप्रस्पणमेवम्भूतः ॥ ४० ॥ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४० ॥ यथेन्द्रनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः ॥ ४२ ॥ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्, पटवदित्यादि ७ ॥ ४३ ॥ . अत्र संग्रहश्लोकाः - “अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्पतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् सङ्ग्रहो मतः ॥ २ ॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् ।। तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ॥ ३ ॥ तत्रर्जुसूत्रनीतिः स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः ॥ ४ ॥ विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ७ ॥ एतेषु प्रथमे चत्वारोऽर्थनिरूपणप्रवणत्वादर्थनयाः ॥ ४४ ॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥ ४५ ॥ पर्वः पर्वो नयः प्रचरगोचरः. परः परस्त परिमितविषयः ॥ ४६ ॥ तत्र सन्मात्रगोचरसङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद् बहुविषयः ॥ ४७ ॥ सद्विशेषप्रकाशकाद् व्यवहारात्, सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः ॥ ४८ ॥ वर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वाद् बहुविषयः ॥ ४९ ॥

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172