________________
107
Vol. XVIII, '92-93
अनुभवस्मृतिहेतुकं तिर्यग्व॑तासामान्यादिगोचरं सङ्कलनात्मकं ज्ञाानं प्रत्यभिज्ञाानम् ॥ ५ ॥ यथा तज्जातीय एवायं गोपिण्डो, गोसदशो गवयः, स एवायं जिनदत्त इत्यादि ॥ ६ ॥
उपलंभानुपलंभसंभवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तर्कः ॥ ७ ॥
यथा यावान् कश्चिद्धमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति ॥ ८ ॥ अनुमानं द्विप्रकारं स्वार्थ परार्थं च ॥ ९ ॥ तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञाानं स्वार्थम् ॥ १० ॥ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥ ११ ॥ इष्टमबाधितमसिद्धं साध्यम् ॥ १२ ॥ तद्विशिष्टः प्रसिद्धो धर्मी पक्षः ॥ १३ ॥
धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः, कुत्रचित्प्रमाणतः, क्वापि विकल्पप्रमाणाभ्याम् ॥ १४ ॥ विकल्पोऽध्यवसायमात्रम् । विकल्पसिद्ध धर्मिणि सत्ता, इतरे साध्ये । अस्ति सर्वज्ञो, नास्ति खरविषाणम् । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानयं देशः, परिणामी शब्दो यथा ॥ १४ ॥
पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ १५ ॥ पक्षहेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तम् । अतिव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोऽत्र दृश्यते इत्यादि हेतुवचनमात्रात्मकमपि तद् भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षात्सूत्रे सूत्रितम् । उपलक्षितं तु द्रष्टव्यम्, मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद् भवतीति ॥ १५ ॥
साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥ १६ ॥ यथा यत्र धूमस्तत्र धूमध्वजः ॥ १६ ॥ व्युत्पन्न प्रति हेतुप्रयोगस्तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ॥ १७ ॥ तथैव, साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः, अन्यथा साध्याभावप्रकारेणानुपपत्तिरेवान्यथानुपत्तिः ॥ १८ ॥ ताभ्यामिति । यथाग्निमानयं प्रदेशः, तथा धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा ॥ १९ ॥ अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ॥ २० ॥ अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तौ, अशक्तौ च बहिर्व्याप्तेः, उद्भावनं व्यर्थम् ॥ २१ ॥ मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥ २२ ॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥ २३ ॥ स द्वधाऽन्वयव्यतिरेकभेदात् ॥ २४ ॥ साधनसत्तायां यथावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयदृष्टान्तः ॥ २५ ॥
१. आदिशब्दात् सर्वदेशकालवर्तिवाच्यवाचकसम्बन्धोऽत्र गृहीतो द्रष्टव्यः । २. संस्कृतज्ञो व्युत्पन्नः ।