________________
108
SAMBODHI
यथा यत्र धूमस्तत्र वह्निर्यथा महानस इति ॥ २६ ॥ साध्याभावे साधनस्याभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ॥ २७ ॥ यथा वह्नयभावे न भवत्येव धूमो यथा जलाशय इति॥ २८ ॥ हेतोरुपसंहार उपनयः ॥ २९ ॥ यथा धूमश्चात्र प्रदेश इति ॥ ३० ॥ प्रतिज्ञाायास्तूपसंहारो निगमनम् ॥ ३१ ॥ यथा तस्मादग्निरत्रेति ॥ ३२ ॥ एते पक्षादयः पञ्चाप्यवयवाः प्रकीर्त्यन्ते ॥ ३३ ॥ स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् ॥ ३४ ॥ उपलब्धिर्विधिप्रतिषेधयोः, अनुपलब्धिश्च ॥ ३५ ॥
तत्र
विधिः सदंशः ॥ ३६ ॥ प्रतिषेधोऽसदंशः ॥ ३७ ॥ स चतुर्की १ प्रागभावः, २ प्रध्वंसाभावः, ३ इतरेतराभावः, ४ अत्यन्ताभावश्च ॥ ३८ ॥ तत्र यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः ॥ ३९ ॥ यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति ॥ ४० ॥ यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः ॥ ४१ ॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य घटस्य कपालमाला इति ॥ ४२ ॥ स्वस्पान्तरात् स्वस्पव्यावृत्तिरितरेतराभावः ॥ ४३ ॥ यथा पटस्वभावाद् घटस्वभावव्यावृत्तिरिति ॥ ४४ ॥ कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ॥ ४५ ॥ यथा चेतनाचेतनयोरिति ॥ ४६ ॥ क्षीरे दध्यादि यत्रास्ति प्रागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् ॥ १ ॥ गवयेऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवजिताः । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥ २ ॥” इति ॥ ४६ ॥ उपलब्धेरपि वैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च ॥ ४७ ॥ तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ४८ ॥ साध्येनाविरुद्धव्याप्य कार्यकारणपूर्वचरोत्तरचरसहचरभेदात् ॥ ४९ ॥
ततो व्याप्याविरुद्धोपलब्धिः १, कार्याविरुद्धोपलब्धिः २, कारणाविरुद्धोपलब्धिः ३, पूर्वचराविरुद्धोपलब्धिः ४, उत्तरचराविरुद्धोपलब्धिः ५, सहचराविरुद्धोपलब्धिः ६ चेति ॥ ५० ॥
१. निश्चितं ज्ञानं निगमनम् २. साधयेनाविरुद्धानां व्याप्यादीनां मुपलब्धय इत्यर्थः ।