SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Vol. XVIII, '92-93 109 ___यथा परिणामी शब्दः, कृतकत्वाद् । यः कृतकः स परिणामी दृष्टो, यथा घटः । कृतकश्चायं तस्मात्परिणामी। यस्तु न परिणामी स न कृतको दृष्टो, यथा वन्ध्यास्तनन्धयः । कृतकश्चायं, तस्मात्परिणामी । १ । अस्त्यत्र पर्वते वह्निः , धूमसमुपलम्भात् । २ । असत्यत्र छाया, छत्रात् । ३। उदेष्यति शकटं, कृत्तिकोदयात् । ४। उदगाद् भरणिः, प्राक्कृत्तिकोदयात् । ५ । अस्त्यत्र सहकारफले स्पं, रसात् । ६ ॥ इति ॥ ५१ ॥ विरुद्धव्याप्याद्युपलब्धिः प्रतिषेधे षोढा ॥ ५२ ॥ तत्र विरुद्धव्याप्योपलब्धिर्यथा नास्त्यत्र शीतस्पर्श, ऊष्णात् ॥ ५३ ॥ विरुद्धकार्योपलब्धिर्यथा नास्त्यस्य क्रोधायुपशान्तिः, वदनविकारात् ॥ ५४ ॥ द्वितीयोदाहरणं यथा नास्त्यत्र शीतस्पर्शः, धूमात् । २ । ॥५४ ॥ विरुद्धकारणोपलब्धिर्यथा नात्र शरीरिणि सुखमस्ति, हृदयशल्यात् । ३ । ॥ ५५ ॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोदेष्यति मुहूर्तान्ते शकटं, रेवत्युदयात् । ४ ॥ ५६ ॥ विरुद्धोत्तरचरोपलब्धिर्यथा नोदगाद् भरणिः, मुहूर्तात्पूर्व पुष्योदयात् । ५ ॥ ५७ ॥ विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञाानं, सम्यग्दर्शनादिति । ६ ॥ ५८ ॥ अनुपलब्धेरपि द्वैस्प्यमविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च ॥ ५९ ॥ तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा ॥ ६० ॥ स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलब्धिभेदात् ॥ ६१ ॥ ततः स्वभावानुपलब्धिः १, व्यापकानुपलब्धिः २, कार्यानुपलब्धिः ३, कारणानुपलब्धिः ४, पूर्वचरानुपलब्धिः ५, उत्तरचरानुपलब्धिः ६, सहचरानुपलब्धिः ७, चेति ॥ ६२ ॥ उदाहूतिर्यथा - नास्त्यत्र भूतले घटः, उपलब्धिलक्षणप्राप्तत्वे सति अनुपलब्धेः १, नास्त्यत्र शिंशपा, वृक्षानुपलब्धेः २, नास्त्यत्राप्रतिबद्धसामर्थ्याग्निः, धूमानुपलब्धेः ३, नास्त्यत्र धूमः, अनग्नेः ४, नोदेष्यति मुहूर्तान्ते शकटं, कृत्तिकोदयानुपलब्धेः ५, नोदगाद् भरणिः, मुहूर्तात्प्राक् कृत्तिकोदयानुपलब्धेः ६, नास्त्यस्य सम्यग्ज्ञाानं, सम्यग्दर्शनानुपलब्धेः ७, इति ॥ ६३ ॥ विरुद्धानुपलब्धिर्विधौ पञ्चधा ॥ ६४ ॥ विरुद्धाकार्यकारणस्वभावव्यापकसहचरानुपलब्धिभेदात् ॥ ६५ ॥ ततश्च विरुद्धकार्यानुपलब्धिः । १ ।, विरुद्धकारणानुपलब्धिः । २ ।, विरुद्धस्वभावानुपलब्धिः । ३ ।, विरुद्धव्यापकानुपलब्धिः । ४ ।, विरुद्धसहचरानुपलब्धिः । ५ । चेति ॥ ६६ ॥ उदाहतिर्यथा - अस्मिन् प्राणिनि व्याधिविशेषोऽस्ति, निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखम् इष्टसंयोगाभावात् २ । अनेकान्तात्मकं वस्तु, एकान्तस्वस्पानुपलब्धेः ३ । अस्त्यत्र छाया, औष्ण्यानुपलब्धेः ४ । अस्त्यत्र मिथ्याज्ञानं, सम्यग्दर्शनानुपलब्धेः ५ इति ॥ ६७ ॥ परंपरया संभवत् साधनमत्रैवान्तर्भावनीयम । अभदत्र चक्रे शिवकः, स्थासात, कार्यकार्यमविरुद्धकार्योपलब्धौ यथा १ । नास्त्यत्र मृगक्रीडनं मृगारिशब्दात्, कारणविरुद्धकार्योपल्बधौ यथा २ । इति ॥ ६७ ॥ (इति तृतीयः परिच्छेदः ।) १. शीतस्पर्शविरुद्धोऽग्निस्तद्व्याप्यमौष्ण्यम्
SR No.520768
Book TitleSambodhi 1993 Vol 18
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages172
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy