________________
110
SAMBODHI (अथ चतुर्थः परिच्छेदः ।) आप्तवचनाज्जातमर्थज्ञाानमागमः ॥ १ ॥ उपचारादाप्तवचनं च ॥ २ ॥ यथा अस्त्यत्र निधिः १ । सन्ति मेर्वादयः २ ॥ ३ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः ॥ ४ ॥ स च द्वधा लौकिको लोकोत्तरश्च ॥ ५ ॥ तत्र लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ६ ॥ सहजसामर्थ्यसङ्केताभ्यामर्थबोधनिबन्धनं शब्दः ॥ ७ ॥ अकारादिः पौद्गलिको वर्ण इति ॥ ८ ॥
(इति चतुर्थः परिच्छेदः)
(अथ पञ्चमः परिच्छेदः ।) तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु ॥ ११ ॥
अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च ॥ २॥ तस्य प्रमाणस्य विसीयन्ते निबध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमिति यावत् । सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदाद्यनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति ॥ २ ॥
सामान्यं द्वधा तिर्यगूलतादिभेदात् ॥ ३ ॥ सदृशपरिणामस्तिर्यक् खण्डमुद्गादिगोत्ववत् ॥ ३ ॥ तत्र प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वं यथेति ॥ ४ ॥ परापरविवर्त्तव्यापिद्रव्यमूर्खता, मृदिव स्थासादिषु ॥ ५ ॥ पूर्वापरपरिणामसाधारणद्रव्यमूर्ध्वतासामान्यं, कटककङ्कणाद्यनुगामिकाञ्चनवदिति ॥ ६ ॥ विशेषश्च द्वेधा पर्यायव्यतिरेकण भेदात् ॥ ७ ॥ एकस्मिन् द्रव्ये क्रमभाविनः पर्यायाः, आत्मनि हर्षविषादादिवदिति ॥ ८ ॥ विसदृशपरिणामो व्यतिरेको, गोमहिषादिवदिति ॥ ९ ॥
(इति पञ्चमः परिच्छेदः ।)
(अथ षष्ठः परिच्छेदः ।) अज्ञाननिवृत्तिस्नोपादोनोपेक्षाश्च फलम् ॥ १ ॥ यत्प्रमाणेन साध्यते तदस्य फलम् ॥ २ ॥ तद् द्विविधमानन्तर्येण पारम्पर्येण च ॥ ३ ॥ तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः ॥ ४ ॥ पारम्पर्येण हानोपादानोपेक्षाबुद्धयश्च फलम् ॥ ५ ॥ तत् प्रमाणाद् भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः ॥ ६ ॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ॥ ७ ॥ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः ॥ ८ ॥