________________
111
Vol. XVIII, '92-93
यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेक्षते चेति प्रतीतेः ॥ ९ ॥ साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥ १० ॥ कर्ता हि साधकः स्वतन्त्रत्वात्, क्रिया तु साध्या कर्तुनिर्वत्यत्वादिति ॥ ११ ॥ प्रमाणस्वरूपादेरन्यत्तदाभासम् ॥ १२ ॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पसमारोपाः प्रमाणस्य स्वस्पाभासाः ॥ १३ ॥ यथा संनिकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्यचसंशयानध्यवसायाः ॥ १४ ॥ प्रमाणभासाः यथा द्विचन्द्रादिज्ञानं विभङ्गश्च प्रत्यक्षाभासम् ॥ १५ ॥ अतस्मिंस्तदिति ज्ञाानं स्मरणाभासम् ॥ १६ ॥ यज्ञादत्ते स देवदत्तो यथा ॥ १७ ॥
सदृशे तदेवेदं तस्मिंश्च तत्सदृशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञाानवत् ॥ १८ ॥ तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासम् । युगलजातज्ञानवदिति ॥ १८ ॥
असंबन्थे तद्ज्ञाानं तर्काभासम् । यावांस्तत्पुत्र स श्याम इति ॥ १९ ॥ असत्यामपि व्याप्तौ तदाभासस्ताभासः ॥ १९ ॥ व्याप्तिरविनाभावो, यथा स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति ॥ २० ॥ अनुमानाभासमिदं - पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् ॥ २१ ॥
अनिष्टादिः पक्षाभासः ॥ २२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः, अनुष्णोऽग्निरित्यादिवत् ॥ २२ ॥
असिद्धविरुद्धानैकान्तिका हेत्वाभासाः ॥ २३ ॥ प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् ॥ २३ ॥ तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपत्तिः सोऽसिद्धः ॥ २४ ॥ स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥ २५ ॥ तत्र उभयस्य वादिप्रतिवादिसमुदायस्यासिद्धः उभयासिद्धो, यथा परिणामी शब्दः चाक्षुषत्वादिति ॥ २६ ॥
अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो, यथा अचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वादिति ॥ २७ ॥
विपरीतान्यथानुपपतिविरुद्धः, अनित्यः पुरुष प्रत्यभिज्ञानादिमत्त्वात् ॥ २८ ॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरवसीयते स विरुद्धः । यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धौ हेत्वाभासः ॥ २८ ॥
यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञाानादिमत्त्वादिति ॥ २९ ॥ विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः (यथा) अनित्यः शब्दः प्रमेयत्वात् ॥ ३० ॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ॥ ३० ॥ स च द्वेधा, निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च ॥ ३१ ॥