________________
SAMBODHI
112 निर्णीता विपक्षे वृत्तिर्यस्य स निर्णीतविपक्षवृत्तिको, यथा नित्यः शब्दः प्रमेयत्वादिति ॥ ३२ ॥
सन्दिग्धा विपक्षे वृत्तिर्यस्य स सन्दिग्धविपक्षवृत्तिको, यथा विवादपदापन्नः पुरुष सर्वज्ञो न भवति वक्तृत्वादिति ॥ ३३ ॥
अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः, अपौरुषेयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ॥ ३४ ॥ विपरीतान्वयश्च यदपौरुषेयं तदमूर्त विद्युदादिनातिप्रसङ्गात् ॥ ३५ ॥ व्यतिरेकेऽसिद्धतद्व्यतिरेकाः, परमाण्विन्द्रियसुखाकाशवत् ॥ ३६ ॥ विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुषेयमिति ॥ ३७ ॥ साधम्र्येण दृष्टान्ताभासो नवधा ॥ ४ ॥
तत्र साध्यधर्मविकलः १, साधनधर्मविकलः २, उभयधर्मविकलः ३, सन्दिग्धसाध्यधर्मा ४, सन्दिग्धसाधनधर्मा ५, सन्दिग्धोभयधर्मा ६, अनन्वयः ७, अप्रदर्शितान्वयः ८, विपरीतान्वयः ९, च ॥ ३९ ॥
तत्र साध्यधर्मविकलो यथाऽपौरुषेयः शब्दोऽमूर्तत्वात् दुःखवदिति १ ॥ ४० ॥ तस्यामेवप्रतिज्ञायां तस्मिन्नेव च हेतौ परमाणुविदिति साधनधर्मविकलः २ ॥ ४१ ॥ मूर्तत्वात्परमाणोः कलशवदित्युभयधर्मविकलः इति ॥ ४२ ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्तत्वाच्च साध्यसाधनोभयधर्मविकलता ३ ॥ ४३ ॥ तथा रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ॥ ४ ॥ ४४ ॥ मरणधर्मायं रागादिमत्त्वान्मैत्रवदिति सन्दिग्धसाधनधर्मा ५ ॥ ४५ ॥ नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा ६ ॥ ४६ ॥ रागादिमान् विवक्षितः पुरुषो वक्तृत्वादित्यनन्वयः ७ ॥ ४७ ॥ अनित्यः शब्दः कृतकत्वाद् घटवदित्यप्रदर्शितान्वयः ८ ॥ ४८ ॥ अनित्यः शब्दः कृतकत्वाद्, यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः ९ । इति ॥ ४९ ॥ वैधयेणापि दृष्टान्ताभासो नवधा ॥ ५० ॥
असिद्धसाध्यव्यतिरेकः १, असिद्धसाधनव्यतिरेकः २, असिद्धोभयव्यतिरेकः ३, सन्दिग्धसाध्यव्यतिरेकः ४, सन्दिग्धसाधनव्यतिरेकः ५, सन्दिग्धोभयव्यतिरेकः ६, अव्यतिरेकः ७, अप्रदर्शितव्यतिरेकः ८, विपरीतव्यतिरेकः ९, च ॥ ५१ ॥
एषु भ्रान्तमनुमानं प्रमाणत्वाद्, यत्पुनर्धान्तं न भवति न तत्प्रमाणं, यथा स्वप्नमित्यसिद्धसाध्यव्यतिरेकः स्वप्नज्ञानाद् भान्तत्वस्यानिवृत्तेः । १ ॥ ५२ ॥
निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद, - यत्तु सविकल्पकं न तत्प्रमाणं, यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैगिकात्प्रमाणत्वस्यानिवृत्तेः २ ॥ ५३ ॥ ___नित्यानित्यः शब्दः सत्त्वाद, यस्तु न नित्यानित्यः स न सन्, तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ३ ॥ ५४ ॥
असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद्, यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी, यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः ४ ॥ ५५ ॥