________________
113
.
Vol. XVIII, '92-93 ___ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो, रागादिमत्त्वाद, यः पुनरादेयवचनः स वीतरागः, तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः ५ ॥ ५६ ॥
न वीतरागः कपिलः, करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वात्, यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलः, तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः ६ ॥ ५७ ॥
न वीतरागः कश्चिद्विवक्षितः पुरुषो, वक्तृत्वाद्, यः पुनर्वीतरागो न स वक्ता, यथोपलखण्ड इत्यव्यतिरेकः ७ ॥ ५८ ॥
अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः ८ ॥ ५९ ॥ अनित्यः शब्दः कृतकत्वाद्, यदकृतकं तन्नित्यं दृष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ९॥६० ॥ इति ।
उपनयाभासो यथा परिणामी शब्दः, कृतकत्वाद्, यः कृतकः स परिणामी, यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति चेति ॥ ६१ ॥ इह साध्यधर्म साध्यर्मिणि साधनधर्म वा दृष्टान्तधर्मिणि उपसंहरत उपनयाभासः ॥ ६१ ॥
निगमनाभासो यथा तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति ॥ ६२ ॥ अत्रापि साधनधर्म साध्यधर्मिणि वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः ॥
अनाप्तवचनप्रभवं ज्ञानमागमाभासः ॥ ६३ ॥
यथा-मेकलकन्यकायाः कुले तालहिन्तालयोर्मूले सुलभाः पिण्डखर्जूराः सन्ति, त्वरितं गच्छत गच्छत शावकाः ॥ ६४ ॥
प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभासः ॥ ६५ ॥ सामान्यमेव विशेष एव तवयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥ ६६ ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति ॥ ६७ ॥
(इति षष्ठः परिच्छेदः ॥)
(अथ सप्तमः परिच्छेदः ।) प्रमाणप्रतिपन्नाथैकदेशपरामर्शो नयः ॥ १ ॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥ २ ॥ स व्याससमासाभ्यां द्विप्रकारः ॥ ३ ॥ व्यासतोऽनेकविकल्पः ॥ ४ ॥ समासतस्तु द्विभेदो, द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ५ ॥ तत्राद्यो नैगमसङ्ग्रहव्यवहार भेदात् त्रेधा ॥ ६ ॥ तत्र अन्योन्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः ॥ ६ ॥
धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः ॥ ७ ॥ पर्याययोर्द्रव्योर्दव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपः । नैके गमा बोधमार्गा यस्यासौ नैगमो नाम नयः प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यः ॥ ७ ॥
उदाहतिर्यथा - सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥