________________
106
SAMBODHI पुनरनिन्द्रियज्ञानेऽपि व्याप्रियत इति साधारणं तत् । असाधारण्येन च व्यपदेशो दृश्यते, यथा पयःपवनातपादिजन्यत्वेऽप्यङ्करस्य बीजेनैव व्यपदेशः, शाल्यङ्कुरः कोदवाङ्कुरोऽमिति । अनिन्द्रियं मनोनिमित्तिमिति ॥ ५ ॥
एतद्वितयमवग्रहेहावायधारणाभेदादेकैकशस्चतुर्विकल्पम् ॥ ६ ॥
तत्र विषयविषयियोग्यदेशावस्थानानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्ट वस्तुग्रहणमवग्रहः ॥ ७ ॥
अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८ ॥ ईहितविशेषनिर्णयोऽवायः ॥ ९ ॥ स एव दृढतमावस्थापन्नो धारणेति ॥ १० ॥ कथंचिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः ॥ ११ ॥ क्रमोप्यमीषामयमेव, तथैव संवेदनादेवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च ॥ १२ ॥ अन्यथा प्रमेयानवगतिप्रसङ्गः ॥ १३ ॥ न खल्वदृष्टमवगृह्यते, न चाऽनवगृहीतं सन्दिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, न चानवेतं धार्यते ॥ १४ ॥
क्वचित्क्रमस्यानुपलक्षणमेषामाशूत्पादाद, उत्पलपत्रशतव्यतिभेदवदिति ॥ १५ ॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥ १६ ॥ तद्विकलं सकलं च ॥ १७ ॥ असंपूर्णपदार्थपरिच्छेदकत्वाद्विकलं तद्विपरीतं तु सकलम् ॥ १७ ॥ तत्र विकलमवधिमनःपर्यायज्ञाानस्पतया द्वधा ॥ १८ ॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं पिद्रव्यगोचरमवधिज्ञानम् ॥ १९ ॥ संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥ २० ॥
सकलं तु सामग्रीविशेषतः समुद्भुतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवलज्ञानमिति ॥ २१ ॥
तद्वानहन्, निर्दोषत्वात् ॥ २२ ॥ निर्दोषोऽसौ, प्रमाणाविरोधिवाक्यत्वात् ॥ २३ ॥ तदिष्टस्य प्रमाणेनाबाध्यमानवत्वात्तद्वाचः, तेनाविरोधसिद्धिरिति ॥ २४ ॥
( इति द्वितीयः परिच्छेदः ।।
(अथ तृतीयः परिच्छेदः ।) अस्पष्टं परोक्षम् ॥ १ ॥ प्राक् सूचितस्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्परोक्षम् ॥ १ ॥ तच्च स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदात् पञ्चप्रकारम् ॥ २ ॥ तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं ज्ञानं स्मरणम् ॥ ३ ॥ तत्तीर्थकरबिंबमिति यथेति ॥ ४ ॥
१. दर्शनं नाम स्थापनादिहीनं निर्विकल्पकमित्यर्थः ।