________________
Vol. XVIII, '92-93
105 ___ अत्र मीमांसका वदन्ति । स्वत एव सर्वथा प्रमाणानां प्रामाण्यम् । तथाहि प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेमानुमानेन वा मीयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाऽतीन्द्रियेण वा ? नेन्द्रियेणाऽतीन्द्रियेन्द्रियाधिकरणत्वेन, तेषां तद ग्रहणायोग्यत्वात । नाप्यतीन्द्रियेण तस्य चारुविचाराभावात । अनमानेन ते नियन्ते इति चेत, कुतस्तत्र नियमनिर्णयः स्यात् ? न प्रत्यक्षाद, अगणेष तत्प्रवत्तेः परास्तत्वात । नाप्यनमानात, तत एव निश्चितावितरेतराश्रयस्य, तदन्तरात्पुनरनवस्थायाः प्रसक्तेः । ततो न गुणास्सन्ति केचिदिति स्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तौ परतः स्यादिति ॥ निश्चयस्तु. तस्य परतः, कारणगुणज्ञानाद्बाधकाभाव-ज्ञानात्संवादिज्ञानाद्वा स्यात् । तत्र प्राच्यं प्रकारं प्रागेव प्रक्षिप्तवन्तो, गुणग्रहणसमर्थप्रमाणपराकरणात् । द्वितीये तु तात्कालिकस्य कालान्तरभाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात् । पौरस्त्यं तावत् कूटहाटकनिष्टंकने स्पष्टमस्त्येव । द्वितीयं तु न चर्मचक्षुषां सम्भवति । संवादिज्ञानं तु सहकारिरूपं सत्, तन्निश्चयं विरचयेद, ग्राहकं वा भवेत् । नाद्यभेदो, भिन्नकालत्वेन तस्य सहकारित्वासंभवात् । द्वितीयपक्षे तु, तस्यैव ग्राहकं सत् ताद्विषयस्य विषयान्तरस्य वा ? नाद्यः, प्रवर्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगात् । द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात् । पक्षद्वयेऽपि तैमिरिकावलोक्यमानचन्द्रमण्डलद्वयदर्शिदर्शनेन व्यभिचारः, तद्धि चैत्रस्य पुनः पुनमैत्रस्य चोत्पद्यत एव । तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा भवेत् । नाग्रिमं, प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावात् । अन्यदपि विज्ञानमेकसन्तानं भिन्नसन्तानं वा ? द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा ? चतुष्टयमपि चैतद् व्यभिचारदुःसंचरम् । तथाहि-एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं भिन्नजातीयं च स्तंभकुंभादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न ज्ञप्तावपि प्रामाण्यं परतः । अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वाद् ज्ञप्तौ तु बाधकापेक्षत्वात्परत एवेति ॥ अत्र ब्रूम : यत्तावद् गुणाः प्रत्यक्षेणानुमानेन वा मीयेरन्नित्यायुक्तं तदखिलं दोषेष्वपि वक्तं पार्यते । अथ प्रत्यक्षेणैव चक्षरादिस्थान दोषान निश्चिक्यिरे लोकाः किं नैर्मल्यादीन न ? अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि न तु गुणरूपमिति, कथं प्रत्यक्षेण गुणनिश्चियः स्यात् ? एवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि, न तु दोषरूपमिति विपर्ययकल्पना किं न स्यादिति ॥ ___ यच्चावाचि निश्ययस्तु तस्य परत इत्यादि, तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे ॥ ___ अथ बाधकादेवाप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकाद्, एवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोऽस्त्वति तदपि कथं स्वतो निर्णीतं स्यात् ? निर्विशेषणं चेदर्थप्राकट्यमर्थापत्त्युत्थापकं तप्रमाणेऽपि प्रामाण्यनिर्णायकार्थापत्त्युत्थापनापत्तिः अर्थप्राकट्यमात्रस्य तत्रापि सद्भावादिति ध्येयम् ॥ १७ ॥
(इति प्रथमः परिच्छेदः ॥)
(अथ द्वितीयः परिच्छेदः ॥) तद् द्विविधं, प्रत्यक्षं च परोक्षं च ॥ १ ॥
स्पष्टं प्रत्यक्षम् ॥ २ ॥ प्रबलतरज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयाद्वा स्पष्टताविशिष्टं वैशिष्ट्यास्पदीभूतं यत्तत्प्रत्यक्षम् ॥ २ ॥
स्पष्टत्वं चानुमानाद्याधिक्येन विशेषप्रकाशनम् ॥ ३ ॥
तद् द्विविधं, सांव्यवहारिकं पारमार्थिकं च ॥ ४ ॥ बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षम् । परमार्थे भवं पारमार्थिकं मुख्यमात्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति ॥ ४ ॥
तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियनिमित्तं च ॥ ५ ॥ इन्द्रयाणि चक्षुरादीनि । तत्र चक्षुर्वया॑नि प्राप्यकारीणीति। ननु इन्द्रियज्ञाने मनोऽपि व्यापिपर्तीति कथं न तेन व्यपदेशः ? उच्यते-इन्द्रियस्यासाधारणकारणत्वान्मनः