________________
104
SAMBODHI तत्र साध्यसाधनयोगुणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपपसंबन्ध इति यावत् । स्वरूपं संबन्धत्वं य संबन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । न चात्र समवायसबन्धः, तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संबन्धस्समवायः, अयुतसिद्धत्वं च तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोयोरविनश्यदेकमपराश्रितमेवावतिष्ठते ॥” इति । तस्मान्मृत्पिण्डघटयोरविष्वग्भाव एव संबन्धः । मृत्पिण्डचक्रयो - विष्वग्भावस्तत्स्वरूपाभावात् । न हि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डतया । अतस्तयोः संयोग एव संबन्धः । निर्वर्तकं कारणमात्मैव यथा कुम्भकारः घटस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहकाः, यथा दण्डादयो घटस्य । तदुक्तं - “निर्वर्तको निमित्तं परिणामी च त्रिधेष्यते हेतुः ।
कुम्भस्य कुम्भकारो धर्ता मृच्चेति समसंख्यः ॥” इति । निमित्तकारणं च द्वेधा, निमित्तकारणमपेक्षाकारणं च । यत्र दण्डादिषु प्रायोगिकी वैनसिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैससिक्येव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेक्षाकारणान्युच्यन्ते ॥ २ ॥
हिताहितप्राप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञाानमेवेदम् ॥ ३ ॥ तद्व्यवसायस्वभावं, समारोपविरुद्धत्वात् ॥ ४ ॥ अतस्मिंस्तदध्यवसायः समारोपः ॥ ५ ॥ सच संशयविपर्ययानध्यवसायभेदात् त्रिधा ॥ ६ ॥ तत्र साधकबाधकप्रमाणाभावादनवस्थिततानेककोटिसंस्पर्शि ज्ञानं संशयः ॥ ७ ॥ यथायं स्थाणुर्वा पुरुषो वेति ॥ ८ ॥ विपरीतैककोटिनिष्टंकनं विपर्ययः ॥ ९ ॥ यथा शुक्तिकायामिदं रजतमिति ॥ १० ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ ११ ॥ यथा गच्छतस्तृणस्पर्शज्ञानमिति ॥ १२ ॥
स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः, अर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कर्तृकरणक्रियाप्रतीतेः ॥ १३ ॥ यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य, तथा स्वाभिमुख्येन प्रकाशनं स्वव्यसायोऽपि तस्येति ॥१३॥ ___ को वा तत्प्रतिभासितमर्थमध्यक्षमिच्छन् तदेव तथा नेच्छेत्प्रदीपवत् ॥ १४ ॥ यत्तु योगैरुक्तं समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरसमयसमत्पदिष्णमानसप्रत्यक्षेणैव लक्ष्यते न पनः स्वेनेति, तदसत, परापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारादविषयान्तरं सञ्चारादिति ॥ १४ ॥
तत्प्रामाण्यं स्वतःपरतश्च । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् ॥ १५ ॥ तदितरत्त्वप्रामाण्यमिति ॥ १६ ॥
तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्चेति ॥ १७ ॥ ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतः, अनभ्यासदशायां तु परत इति । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाव्यभिचारि तदितरच्चास्तीति प्रामाण्याप्रामाण्यनिश्चयः संवादकबाधक-ज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते । अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत इति वस्तुगतिः ।