SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ शुभविजयगणिकृता प्रमाणनयतत्त्वप्रकाशिका स्याद्वादभाषा संपा. नारायण म. कंसारा अथ श्रीशुभविजयकृता स्याद्वादभाषा प्रारभ्यते । ॥ ॐ ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ (अथ प्रथम : परिच्छेदः ।) श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयसूरिप्रसादमासाद्य पुनरतुलम् ॥ १ ॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ॥ २ ॥ युग्मम् ॥ जीवाजीवपुण्यपापानवसंवरनिर्जराबन्धमोक्षलक्षणपदार्थानां सम्यक् ज्ञानक्रियाभ्यां निःश्रेयसाधिगमः ॥१॥ अस्य व्याख्या । जीवाजीवादिनवपदार्थानां सम्यगज्ञानं केवलज्ञानम् । सम्यक् क्रिया च यथाख्यातचारित्रं, ताभ्यां मोक्षावाप्तिर्भवतीति ॥ न च जीवाजीवादीनां सम्यग्ज्ञानं तावद्भवति यावदेषामुद्देशलक्षणपरीक्षा न विधीयते इति । तत्र संज्ञामात्रेण पदार्थप्रतिपादनमुद्देशः । स चात्रैव सूत्रे विहितः । लक्षणं त्वलक्ष्यव्यावृत्तस्वरूपकथनम्, यथा घटस्य पृथ्बुध्नोदराद्याकारवत्त्वम् । यथालक्षितस्य लक्षणं घटते न वेतिविमर्श परीक्षा । तेनैते लक्षणपरीक्षे जीवाजीवादीनां सम्यग्ज्ञानार्थं विधातव्ये ॥ १ ॥ तत्र च मानाधीना मेयसिद्धिरितिन्यायादनुद्दिष्टस्यापि प्रमाणस्य पूर्वं लक्षणमुच्यते । स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥ २ ॥ अत्र प्रमाणं लक्ष्यं, स्वपरव्यवसायिज्ञानत्वं च लक्षणम्। यत्तु स्वापूर्वार्थव्यवसायि ज्ञानं प्रमाणमिति प्रमाणलक्षणम्', तन्न घटाकोटिमाटीकते, पूर्वाकारपरित्यागेनोतराकारपरिणामवत्त्वकार्यत्वमिति प्रत्यभिज्ञानस्याप्रामाण्यप्रसङ्गात् । प्रत्यभिज्ञानं च एकस्मिन्नेव घटे घटोऽयं घटोऽयमितिधारावाहिकज्ञानम्। नन्वत्र पूर्वपर्यायहान्युत्तरपर्यायोत्पत्तिमत्कार्यमिति कार्यलक्षणात् फलरूपज्ञानस्यापि कार्यत्वं, तथा च कार्यस्य कारणजन्यत्वनियमात्, यथा च्छिदायां दात्रजन्यत्वम्, अतः कारणं वक्तव्यम् । सत्यम् । संस्कारसंप्रयोगाभ्यां जन्यं ज्ञानं, यथा संनिकर्षः सोऽयं घट इति । स्वरपरव्यवसायिज्ञानं करणमेव, यथा तु च्छिदायां दात्रम् । किं पुनः करणम् ? साधकतमं करणम् । अतिशयितं च साधकं साधकतमं प्रकृष्टकरणमित्यर्थः। ननु साधकं कारणहेतुरिति पर्यायाः, तदेवं न ज्ञायते किं तत्कारणमिति ? उच्यते - कार्यानुकृतान्वयव्यतिरेकि कारणम् । तच्चात्मेन्द्रियाद्येव यथा मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्त्तकनिमित्तभेदात् । तत्र परिणामिकारणमात्मा । यथा मृत्पिण्डो घटस्य, यतो मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादि परिणामिकारणम् । ननु मृत्पिण्डसंबन्ध इव चक्रादिसम्बन्धोऽपि घटस्य घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो, न चक्रतुर्यादयः परिणामिकारणम् ? सत्यम् । द्विविधः सम्बन्धः संयोगोऽविष्वग्भावश्च । १ विचारः । २ निश्चायकम् ।
SR No.520768
Book TitleSambodhi 1993 Vol 18
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages172
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy