Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 118
________________ 111 Vol. XVIII, '92-93 यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेक्षते चेति प्रतीतेः ॥ ९ ॥ साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥ १० ॥ कर्ता हि साधकः स्वतन्त्रत्वात्, क्रिया तु साध्या कर्तुनिर्वत्यत्वादिति ॥ ११ ॥ प्रमाणस्वरूपादेरन्यत्तदाभासम् ॥ १२ ॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पसमारोपाः प्रमाणस्य स्वस्पाभासाः ॥ १३ ॥ यथा संनिकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्यचसंशयानध्यवसायाः ॥ १४ ॥ प्रमाणभासाः यथा द्विचन्द्रादिज्ञानं विभङ्गश्च प्रत्यक्षाभासम् ॥ १५ ॥ अतस्मिंस्तदिति ज्ञाानं स्मरणाभासम् ॥ १६ ॥ यज्ञादत्ते स देवदत्तो यथा ॥ १७ ॥ सदृशे तदेवेदं तस्मिंश्च तत्सदृशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञाानवत् ॥ १८ ॥ तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासम् । युगलजातज्ञानवदिति ॥ १८ ॥ असंबन्थे तद्ज्ञाानं तर्काभासम् । यावांस्तत्पुत्र स श्याम इति ॥ १९ ॥ असत्यामपि व्याप्तौ तदाभासस्ताभासः ॥ १९ ॥ व्याप्तिरविनाभावो, यथा स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति ॥ २० ॥ अनुमानाभासमिदं - पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् ॥ २१ ॥ अनिष्टादिः पक्षाभासः ॥ २२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः, अनुष्णोऽग्निरित्यादिवत् ॥ २२ ॥ असिद्धविरुद्धानैकान्तिका हेत्वाभासाः ॥ २३ ॥ प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् ॥ २३ ॥ तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपत्तिः सोऽसिद्धः ॥ २४ ॥ स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥ २५ ॥ तत्र उभयस्य वादिप्रतिवादिसमुदायस्यासिद्धः उभयासिद्धो, यथा परिणामी शब्दः चाक्षुषत्वादिति ॥ २६ ॥ अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो, यथा अचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वादिति ॥ २७ ॥ विपरीतान्यथानुपपतिविरुद्धः, अनित्यः पुरुष प्रत्यभिज्ञानादिमत्त्वात् ॥ २८ ॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरवसीयते स विरुद्धः । यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धौ हेत्वाभासः ॥ २८ ॥ यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञाानादिमत्त्वादिति ॥ २९ ॥ विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः (यथा) अनित्यः शब्दः प्रमेयत्वात् ॥ ३० ॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ॥ ३० ॥ स च द्वेधा, निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च ॥ ३१ ॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172