Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 117
________________ 110 SAMBODHI (अथ चतुर्थः परिच्छेदः ।) आप्तवचनाज्जातमर्थज्ञाानमागमः ॥ १ ॥ उपचारादाप्तवचनं च ॥ २ ॥ यथा अस्त्यत्र निधिः १ । सन्ति मेर्वादयः २ ॥ ३ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः ॥ ४ ॥ स च द्वधा लौकिको लोकोत्तरश्च ॥ ५ ॥ तत्र लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ६ ॥ सहजसामर्थ्यसङ्केताभ्यामर्थबोधनिबन्धनं शब्दः ॥ ७ ॥ अकारादिः पौद्गलिको वर्ण इति ॥ ८ ॥ (इति चतुर्थः परिच्छेदः) (अथ पञ्चमः परिच्छेदः ।) तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु ॥ ११ ॥ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च ॥ २॥ तस्य प्रमाणस्य विसीयन्ते निबध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमिति यावत् । सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदाद्यनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति ॥ २ ॥ सामान्यं द्वधा तिर्यगूलतादिभेदात् ॥ ३ ॥ सदृशपरिणामस्तिर्यक् खण्डमुद्गादिगोत्ववत् ॥ ३ ॥ तत्र प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वं यथेति ॥ ४ ॥ परापरविवर्त्तव्यापिद्रव्यमूर्खता, मृदिव स्थासादिषु ॥ ५ ॥ पूर्वापरपरिणामसाधारणद्रव्यमूर्ध्वतासामान्यं, कटककङ्कणाद्यनुगामिकाञ्चनवदिति ॥ ६ ॥ विशेषश्च द्वेधा पर्यायव्यतिरेकण भेदात् ॥ ७ ॥ एकस्मिन् द्रव्ये क्रमभाविनः पर्यायाः, आत्मनि हर्षविषादादिवदिति ॥ ८ ॥ विसदृशपरिणामो व्यतिरेको, गोमहिषादिवदिति ॥ ९ ॥ (इति पञ्चमः परिच्छेदः ।) (अथ षष्ठः परिच्छेदः ।) अज्ञाननिवृत्तिस्नोपादोनोपेक्षाश्च फलम् ॥ १ ॥ यत्प्रमाणेन साध्यते तदस्य फलम् ॥ २ ॥ तद् द्विविधमानन्तर्येण पारम्पर्येण च ॥ ३ ॥ तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः ॥ ४ ॥ पारम्पर्येण हानोपादानोपेक्षाबुद्धयश्च फलम् ॥ ५ ॥ तत् प्रमाणाद् भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः ॥ ६ ॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ॥ ७ ॥ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः ॥ ८ ॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172