Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 397
________________ परिशिष्टम् [३] श्रीजयकीर्तिसूरिविरचितशीलोपदेशमालायाः श्रीसोमतिलकसूरिविरचितशीलतरङ्गिणीवृत्तौ ऋषिदत्ताकथा ॥ पतिपरिहतानामपि महासतीनां शीलमाहात्म्यमाह रिसिदत्ता दवदंती, कमला य कलावई विमलसीला । नामग्गहणजलेण वि, कलिमलपक्खालणं कुणह ॥ व्याख्या-ऋषिदत्ता तथा दवदन्ती तथा कमला तथा कलावती च, एताश्चतस्रोऽपि विमलशीलाः, प्रत्येकं परीक्षितनैर्मल्या नन्दन्त्विति सम्बन्धः माहात्म्यमाह-आस्तां स्तुत्यभिवादनादिकं, तासां नामग्रहणजलेनापि कलिमलप्रक्षालनं कुरुत, हे भव्या ! इत्यध्याहारः, अयं गाथासमासार्थः, व्यासार्थस्तु कथानकेभ्योऽवगन्तव्यः, तत्रादौ ऋषिदत्ताकथा । तथाहि अत्रैव मध्यदेशेऽस्ति, पुरं श्रीरथमर्दनम् । वणिक्पुत्र इवाभाति, श्रीदो यत्रेभ्यसद्मसु ॥१॥ तत्र हेमरथो राजा, यस्य निस्त्रिंशवल्लरी । उष्णैरप्यरिनारीणां, ववृधे नेत्रवारिभिः ॥२॥ वल्लभा सुयशा नाम्नी, तस्य यन्नेत्रनिर्जिता । नूनं श्रिताऽप्यरण्यानी, मार्गमासेवते मृगी ॥३॥ नाम्नास्ति कनकरथ-स्तयोः पुत्रो महारथः । यत्कीर्तिकान्ता बालापि, सहेलं क्रमते नभः ॥४॥ इतः पुर्यस्ति कौबेरी, कबरीवाऽवनिश्रियः । नृपः सुन्दरपाणिस्तां, शास्ति शौण्डीर्यवज्रभृत् ॥५॥ १. शीलोपदेशमालायां-गाथा/५५ । D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436