Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [ ३ ] ऋषिदत्ताकथा ॥ ]
नेदृक् सम्भाव्यतेऽमुष्या - मिदं चात्र विलोक्यते । विलोक्येति प्रियां सद्योऽजीजागरदनल्पधीः ॥ ९१ ॥ सुप्तोत्थितामथोवाच, देवि ! पृच्छामि किञ्चन । गोपायसि न चेत् कान्ते !, तयोक्तं द्रुतमुच्यताम् ॥९२॥ प्रियेऽत्र पुरुषो रात्रौ श्रूयते मारितोऽधुना । उपधानं समांसं ते, मुखं चाऽसृग्विगर्हितम् ॥९३॥ तत्त्वं किं राक्षसी भद्रे !, भूत्वापि मुनिपुत्रिका । इत्थं प्रत्यक्षमालोक्य, कोऽपि ज्ञानमुदीक्षते ॥ ९४ ॥ सापि पत्युर्वचः श्रुत्वा, स्वं च दृष्ट्वा तथाविधम् । भीतभीता कातराक्षी, कुमारमिदमाख्यत ॥९५॥ एतत्पुनरसम्भाव्यं वक्तुं वाचापि न क्षमा । केनचिद्वैरिणाऽचेष्टि, पूर्वकर्मानुभावतः ॥९६॥ यदि वा स्वामिपादाना-मप्रतीतिः प्रगल्भते । तदा निगृह्यतां शीघ्रं, सर्पदष्टप्रतीकवत् ॥९७॥ कुमारोऽपि कृपाम्भोधि-विवेकी तामथाख्यत । भद्रे ! जानामि निर्दोषां, द्वितीयेन्दुकलामिव ॥ ९८ ॥ वदन्निति खलास्यानां, मुद्रणाय नृपाङ्गजः । तन्मुखं क्षालयामास, स्वयं पीयूषवर्षि सः ॥ ९९॥ प्रत्यहं सेत्थमाधत्ते, कुमारश्च व्यपोहति ।
,
सद्यः प्राभातिको वायु - रवश्यायकणानिव ॥१००॥ अन्यदा तदुदन्तज्ञः, सकोपः प्राह भूधवः । रे रे ! दुर्मन्त्रिणश्चिन्ता, युष्माभिर्न विधीयते ॥१०१॥ नित्यं नरैकसंहारो, भवन्नयमुपेक्षितः ।
वर्द्धमानो व्याधिरिव, ज्ञेयः सर्वङ्कषः खलु ॥१०२॥ तैरूचे विहिता एव, वयं वर्त्तामहे परम् ।
न मारिर्मानवी देव !, त्वत्पुरे मान्त्रिकी यदि ॥ १०३ ॥ न साऽस्मद्गोचरे किन्तु, पुरात् पाखण्डिनोऽखिलाः । निर्वास्यन्तामितो नूनं, शान्तिः सम्भाव्यते ततः ॥ १०४ ॥ इति तैः प्रेरितो राजा, सर्वदर्शनिनः पुरात् । मुक्त्वा जैनमुनीन् दूरं, निर्वासयितुमादिशत् ॥१०५॥ अत्रान्तरे दुराचारा, सुलसा कलुशाशया । नरेन्द्रमिदमाचष्ट, सा विद्वन्मानिनी रहः ॥१०६॥ देवाद्य कश्चिदस्वप्नः, स्वप्ने मामिदमाख्यत । यदद्य नृपतिः पाखण्डिनां निर्वासयिष्यति ॥१०७॥
D:\chandan/new/datta-p/pm5\2nd proof
[ ३२९

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436