Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रायश्चित्त-चूलिका।
१३५
मासः-पंचकल्याणं सोपस्थान--सप्रतिक्रमणं भवति । बहुशो वसतिसमारंभग्रामक्षेत्रादिचिन्ताभिधायिनो, मूलं—प्रायश्चित्तं भवति ॥७५॥
ग्रामादीनामजानानो यः कुर्यादुपदेशनम् ।
जानन् धर्माय कल्याणं मासिकं मूलगः स्मये ॥ ७६ ॥ ग्रामादीनां-ग्रामपुरखेटकर्वटमटंबगृहवसतिप्रभृतिसन्निवेशानां । अजानानःदोषमनवबुद्धयमानः सन् । यो-यतिः । कुर्यात्-विदधाति । उपदेशनं-उपदेशं । जानन्--अवगच्छन्नपि । धर्माय-धर्मार्थ उपदेशं यदि वितनुते तदानीं अजानाने कल्याणं । धर्मकारणे, मासिकं-पंचकल्याणं प्रायश्चित्तं गच्छतीति । मूलगः--मूलं प्रायश्चित्तं गच्छतीति मूलगः । स्मये-गर्वे सति । यदि दर्पण ग्रामायुपदेशनं करोति तदा मूलं प्रायश्चित्तं समश्नुते ॥ ७६ ॥ __ आलोचना तनूत्सर्गः पूजोद्देशेऽप्रबोधने।
सोपस्थाना सकृद्देया क्षमा कल्याणकं मुहुः ॥ ७७ ॥ आलोचना- गुरुभ्यः स्वदोषविनिवेदनं । तनूत्सर्ग:-कायोत्सर्गः । पूजोद्देशे-पूजोपदेशने कृते सति । अप्रबोधने-अज्ञे पुरुषे । सोपस्थाना सकृद्देया-आरंभपरिमाणं परिज्ञाय आलोचना वा कायोत्सर्गो वा तावद्यावत्, क्षमा-क्षमणं, सोपस्थाना सप्रतिक्रमणा, सकृदेकदिवसेषु, देया दातव्या । कल्याणकं मुहुः-मुहुः पुनः पुनर्यदि पूजाविधानं देशयति तदानीं कल्याणपंचकं प्रायश्चित्तं दातव्यं भवति ॥ ७७ ॥
जानानस्यापि संशुद्धिः सकृच्चासकृदेव च । सोपस्थानं हि कल्याणं मासिकं मूलमावधे ॥ ७८ ॥ जानानस्यापि दोषमवगच्छतोऽपि पुरुषस्य पूजोपदेशे सति । संशुद्धिःप्रायश्चित्तं भवति । सकृत्--एकवारं । असकृदेव च-अनेकवारमपि। सोप स्थानं हि कल्याणं-सकृत्सोपस्थानं सप्रतिक्रमणं; हि स्फुटं, कल्याणपंचकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/aa165d9ae3a1eb303f6ad956a9862a26b8146a2a249e4c773dc28a7818d0b092.jpg)
Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200