Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रायश्चित्त चूलिका ।
कुलीन क्षुल्लकेष्वेव - कुलीनेषु कुलपुत्रेषु ब्राह्मणक्षत्रियवैश्यविशुद्धोभयकुलसमुत्पन्नेषु व्यङ्गादिकारणसंश्रयात् क्षुल्लक व्रताधिष्ठितेषु सत्सु । सदा-सर्वकालं । देयं दातव्यं । महाव्रतं --निर्ग्रन्थलिंगं । सल्लेखनोपरूढेषु -- संस्तरमाश्रितेषु नान्येषु क्षुल्लकेषु । गणेन्द्रेण - गणचारिणा । गुणेच्छुना - गुणाभिलाषिणा ॥ ११३ ॥
ऋषि-प्रायश्चित्तम् ।
समाचारसमुद्दिष्टविशेषभ्रंशने पुनः । स्थैर्यास्थैर्यप्रमादेषु दर्पतः सकृन्मुहुः ॥ ११५ ॥
साधूनां यद्वदुद्दिष्टमेवमार्यागणस्य च । दिनस्थानत्रिकालोनं प्रायश्चित्तं समुच्यते ॥ १९४ ॥ साधूनां - ऋषीणां । यद्वत् यथैव । उद्दिष्टं - प्रतिपादितं । एवमार्यागणस्य च - आर्यागणस्यापि संयतिकासमूहस्य च एवमेव प्रायश्चित्तं भवति । अयं तु विशेषः, दिनस्थानत्रिकालोनं - दिनस्थानं दिवसप्रतिमायोगः, त्रिकालः त्रिकालयोगः, ताभ्यामूनं हीनं रहितं । प्रायश्चित्तंविशुद्धिः । समुच्यते - अभिधीयते ॥ ११४ ॥
१४७
********
समाचारसमुद्दिष्ट विशेषभ्रंशने पुनः - समाचारे ये केचन कार्याकार्यमन्तरेण परगृहगमनरोधनस्नपनपचनषडिधारंभप्रभृतयो विशेषास्तेषां भ्रंशे स्खलने तु सति । स्थैर्यास्थैर्यप्रमादेषु - स्थैर्ये स्थिरत्वे, अस्थैर्ये अस्थिरत्वे, प्रमादे कथंचिद्दोषसम्पन्ने । दर्पतः - अहंकाराच्च । सकृत् - एकवारं । मुहु:पुनः पुनः । एतेषु यथासंख्यं प्रायश्चित्तानि वश्यन्ते ॥ ११५ ॥
Jain Education International
कायोत्सर्गः क्षमा क्षान्तिः पंचकं पंचकं क्रमात् । ष षष्ठं ततो मूलं देयं दक्षगणेशिना ॥ ११६ ॥ कायोत्सर्ग : --- तनुत्सर्गः । क्षमा – उपवासः । क्षान्तिः - क्षमणं । पंचकं - कल्याणं । पुनः, पंचकं । क्रमात् - - क्रमेण । षष्ठं - - षष्ठं प्रायश्चित्तं । पुनरपि षष्ठमेव । ततो मूलं - तदनन्तरं मूलं पंचकल्याणं । देयं - दातव्यं । दक्षगणेशिना -- निपुणगणेन्द्रेण ॥ ११६ ॥
१ सप्ताक्षराण्येव पुस्तके |
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200