Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
१५०
प्रायश्चित्तसंग्रहे
रसानां स्यात्-भवेत् । परित्याग:--परिवर्जनं । चतुर्मासान् (चतुरः) त्रिंशद्रात्रान् यावत् । असंशयं-निःसन्देहम् ॥ १२३ ।।
अब्रम्हसंयुता क्षिप्रमपनेयापि देशतः।।
सा विशुद्धिबहिर्भूता कुलधर्मविनाशिका ॥ १२४ ॥ अब्रह्मसंयुता-अब्रह्मणा मैथुनेन संयुता संगता । क्षिप्रं--शीघ्रं । अपनेया-निर्घाटनीया । अपि देशतः-आस्तां तावद्ग्रामादेः देशादपि तद्विषयादपि उद्वासनीया । सा विशुद्धिबहिर्भूता--सा पूर्वोक्ता संयतिकारूपधारिणी; विशुद्धिबहिर्भूता प्रायश्चित्तविवर्जिता । कुलधर्मविनाशिकाकुलं गुरुकुलं च धर्मो जिनशासनं तयोर्विनाशिका दूषिका ॥ १२४ ॥
तदोषभेदवादोऽपि पण्डितानां न कल्पते ।
अन्योक्तं लक्षणीयं न तत्प्रहेयं प्रयत्नतः ॥ १२५॥ तदोषभेदवादोऽपि-तस्य पूर्वोक्तसंयमविषयस्य दोषस्य भेदवादः प्रकाशनं च । पण्डिताना-सम्यग्ज्ञानवतां पुरुषाणां । न कल्पते-न युज्यते। अन्योक्तं लक्षगीयं न-अन्यैरपि कैश्चिदुक्तमभिहितमपि लक्षणीयं न-न लक्षणीयं न लक्षयितव्यं नोपलक्षणीयं । तत्प्रहेयं-तज्जल्पनकं, प्रहेयं परित्याज्यमेव । प्रयत्नतः-अत्यन्ततात्पर्यात् ॥ १२५ ॥
यतिरूपेण वाच्याता चेदार्यानामधारिका।
हा! हा ! कष्टं महापापं न श्रोतुमपि युज्यते ॥ १२६ ॥ यतिरूपेण-संयतनामधारिणा सह । वाच्याप्ता चेत् --यदि वाच्याप्ता वाच्यं जल्पनकं, आप्ता प्राप्ता, भवति । आर्यानामधारिका--विरतिकाभिधानवाहिका । हा हा कष्टं-हा हा विग्धिक्, कष्टं निकृष्टं । महापापंमहापातकं । तत्तेन, श्रोतुमपि न युज्यते--आस्तां तावज्जल्पनं संप्रश्नो वा श्रोतुमपि आकर्णयितुमपि न युज्यते न कल्पते न वर्तते ॥ १२६ ॥
उभयोरपि नो नाम ग्राह्यं धिङीचकर्मणोः। अन्यश्चेत्कोऽपि तद्ब्रूयात् पिधातव्य ततः श्रुती ॥ १२७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200