Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रायश्चित्तसंग्रहे
द्वादश व्रतानि अधश्चातिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इत्येते स्थापयितव्याः । संदृष्टिरप्येषामेषा भवति । उच्चारणा विनिश्चीयतेस्थूल कृतप्राणातिपातस्यातिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इति प्रथमाणुव्रतस्य पंचोच्चारणा । एवं शेषैकादशवतेष्वपि पंच पंचोच्चारणा भवन्ति, सर्वव्रतानां सर्वोच्चारणाः संकलिताः षष्ठिर्भवन्ति । मूलोच्चारणाभिः पंचभिः सह पंचषष्ठिरुच्चारणा इति ॥ १४६ ॥
रेतोमूत्रपुरीषाणि मद्यमांसमधूनि च । - अभक्ष्यं भक्षयेत् षष्ठं दर्पतश्चेविषट्क्षमाः ॥ १४७ ॥
रेतोमूत्रपुरीषाणि-रेतः क्षरण, मूत्रं प्रस्रवणं, पुरीषमुच्चारः । मद्यमांसमधूनि च-मद्यं सुरा, मांसं पिशितं, मधु माक्षिकार्दितानि च । अभक्ष्यं--- अभोज्यं रुधिरास्थिचर्मप्रमुखं च यदि । भक्षयेत्-अभ्यवहरति प्रमादेन तदानीं तस्य जघन्योपासकस्य षष्ठं प्रायश्चित्तं भवति । दर्पतश्चेत्-चेद्यदि, दर्पतोऽहंकारात् पूर्वोक्तमझनाति तदानीं द्विषट्क्षमा:-उपवासा द्विषट् द्वादश भवन्ति प्रायश्चित्तम् ॥ १४७॥
पंचोदुम्बरसेवायां प्रमादेन विशोषणं ।
चाण्डालकारुकाणां षडन्नपाननिषेवणे ॥१४८॥ पंचोदुम्बरसेवायां-पंचोदुम्बराणि वटाश्वत्थोदुम्बरकठूमरविशेषफलानि तेषां दर्पतोऽभ्यवहरणे कृते द्वादशोपवासाः। प्रमादेन च, विशोषणंउपवासः प्रायश्चित्तं । चाण्डालकारुकाणां षडन्नपाननिषेवणे-चांडाला. दीनां कारुकाणां कारूणां वरुटरजकादीनां च अन्नपानयोर्निषेवणेऽनुभवने कृते सति षट् षड्डिशोषणानि भवन्ति ॥ १४८॥
सद्योल्लंघि (बि) तगोधातवन्दीगृहसमाहतान् । ?
कृमिदृष्टं च संस्पृश्य क्षमणानि षडश्नुते ॥ १४९॥ १ सदृष्टि इति भूलः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/269ac3f65785e5fd2ca5445bc2d03259f7dc6c0a2e9b083de5ccf767bd83259e.jpg)
Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200