Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रायश्चित्तग्रंथः ।
१६७
स्फुटं स्नानानि कलशैस्त्रीणि पंचामृतैस्तथा ॥ अभिषेका मोक्कूलास्ते पंचविंशतिरीरिताः । पंचाशद्भुक्तिदानानि गावस्तिस्रः उदाहृताः॥ पलानि दश गन्धश्च पुष्पपंक्तिसहस्रकं । द्वे तथा तीर्थयात्रे च पूजा स्यात् पंचनिष्ककैः ॥७॥ अग्निपातादिपंचत्वादपवादे समागते । तद्दोषपरिहारार्थ प्रायश्चित्तमिदं भवेत् ॥ पंचविंशतिः संख्याता उपवासा बुधैरिह । पंचाशदेकभक्तानि द्विशतीं भोजयेज्जनान् ॥ त्रयोऽभिषेकाः कलशैर्गावस्तिस्रः प्रकीर्तिताः । पंचामृताभिषेकाश्च पंचदश निवेदिताः॥ पंचसप्ततिश्चाख्याता मोक्कूलाश्च परिस्फुटं। चत्वारिंशत्सहस्राणि पुष्पाणां चन्दनस्य च ॥ पलं दश समाख्यातास्तीर्थयात्राश्च पंच वै। निष्कैश्च पंचदशभिः संघपूजां प्रकल्पयेत् ॥ ८ ॥ सर्पादिभक्षणाद्वज्रपातादचेतनादपि । घोटकाद्युपरिष्टाच्च पंचत्वे समुपागते । पंचोपवासा जायंते एकभक्तानि विंशतिः। कलशाभिषेको स्यातां दश पंचामृतैस्तथा ॥ पंचविंशतिरुद्दिष्टा मोक्कूलाश्चाभिषेककाः । चत्वारिंशज्जनानां स्यादाहारैः परितर्पणम् ॥ द्वे गावौ दशगन्धस्य पलानि कुसुमानि च । तथा पंक्तिसहस्राणि तीर्थयात्रास्तु पंच वै ॥ निष्कत्रयेण कल्प्येत संघपूजा हितैषिणा ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200