Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 181
________________ श्रीमद्भट्टाकलन्देवविरचितः प्रायश्चित्तग्रन्थः। -- -- जिनचन्द्रं प्रणम्याहमकलङ्क समन्ततः । प्रायश्चित्तं प्रवक्ष्यामि श्रावकाणां विशुद्धये ॥१॥ मकारत्रयसेवां यः कृत्वा पश्चाद्विरक्तभाक् । तत्त्यजेत्तस्य जायेत प्रायश्चित्तमिदं स्फुटम् ॥ द्वादशानशनान्येकवारभुक्तानि चापि वै। पंचाशदभिषेकाचा (न्न ) दानानि च पृथक पृथक् । कलशाभिषेकश्चैको गौरेका च प्रदीयते । पुष्पाणां च सहस्राणि चतुर्विंशतिरेव च ॥ तथा द्वे तीर्थयात्रे स्तो गन्धं पलंचतुष्टयम् । संघपूजां च निष्काणि त्रीणि कुर्याद्विचक्षणः ॥ २ ॥ प्रमादात् सेवते यस्तु मकारत्रितयं नरः। प्रायश्चित्तं ब्रुवे तस्य विशुद्धौ पूर्ववत् क्रमात् ॥ अभिषेकाश्च तावन्तः पुष्पपंचसहस्रकं । पलद्वयमितं गन्धं तीर्थयात्रे तथा द्विके ॥ ३॥ पंचोदुम्बरसेवाभाग्यस्तस्य च विशोधनम् । चत्वार उपवासाः स्युादशाश्चैकभुक्तयः॥ कलशाभिषेकाश्चैकोऽभिषेको द्वादशोदिताः। सहस्राणि च चत्वारि कुसुमानि भवन्ति वै ॥ १ लिखितपुस्तके सर्वत्र अस्मादने पलस्थाने फलेति पाठो वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200