Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 180
________________ १६४ प्रायश्चित्तसंग्रहे ग्रन्थविशेषः । नानाचार्यमतानि-नानाप्रकारसूरिसूर्य ( ?) सामान्यवि. शेषात्मकनयविवक्षावशादाभेहितमतविशेषात्, ऐक्यात-एकत्वेन एकमुखेन । बोडुकामेन । वर्णितः- कथितो बोद्धव्यः ॥ १६५ ॥ अज्ञानाद्यन्मया बद्धमागमस्य विरोधकृत् । तत्सर्वमागमाभिज्ञाः शोधयन्तु विमत्सराः ॥ १६६ ॥ अज्ञानात्--अनवबोधात् भ्रांत्या। यन्मया बद्धं-यत्किंचित्क्षणं मया अनेन बद्धं दृब्धं ग्रंथितं । आगमस्य ---प्रथमानुयोगचरणानुयोगकरणानु योगद्रव्यानुयोगविशेषविशिष्टस्य परमागमस्य शब्दागमस्य युक्तयागमस्य च । विरोधकृत्-विरोधकारि विरुद्धं । तत्सर्व-तत्पूर्वोक्तं सर्व निरवशेष दोषजातं । आगमाभिज्ञाः-आगमकुशलाः । शोधयन्तु--विमलयन्तु । विमत्सराः-विगतमात्सर्या उत्तमक्षमामलसलिलविमलीकृताशयविशेषाः सन्तः सन्तः ॥ १६६ ॥ .. इति श्रीनन्दिगुरुविरचितचूलिकाविवरणम् । यः श्रीगुरूपदेशेन प्रायश्चित्तस्य संग्रहः । दासेन श्रीगुरोर्टब्धो भव्याशयविशुद्धये ॥१॥ तस्यैषाऽनूदिता वृत्तिः श्रीनन्दिगुरुणा दिशा । विरुद्धं यदभूदत्र तत्क्षाम्यतु सरस्वती ॥ २ ॥ प्रवरगुरुगिरीन्द्रप्रोद्गता वृतिरेषा सकलमलकलंकक्षालिनी सज्जनानाम् । सुरसरिदिवशस्वत्सेव्यमाना द्विजेन्द्रैः प्रभवतु जननूना यावदाचन्द्रतारम् ॥ ३॥ (इति) प्रायश्चित्तविनिश्चयवृत्तिः। . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200