Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 171
________________ प्रायश्चित्त- चूलिका । षण्णां - - जघन्यानां । स्यात् -- भवेत् । श्रावकाणां - उपासकानां । पंचपातकसन्निधौ — गोवधस्त्रीहत्याबालघातश्रावक विनाशबिंविघात सन्निपाते सति । महामहो जिनेन्द्राणां सर्वज्ञानां च महामहः महामहिमा । विशेषेण विशोधनं-- अतिशयप्रायश्चित्तं भवति ॥ १३९ ॥ आदावन्ते च षष्ठं स्यात्क्षमणान्येकविंशतिः । प्रमादाद्गोबधे शुद्धिः कर्तव्या शल्यवर्जितैः ॥ १४० ॥ आदौ - प्रथमं तावत् । अन्ते च -- अवसाने च । षष्ठं स्यात् षष्ठं प्रायश्चित्तं भवति । मध्ये, क्षमणान्येकविंशतिः -- एकविंशतिरुपवासाः सन्ति । प्रमादात् - कथंचित् । गोवधे – गोहत्यायां | शुद्धिः -- प्रायश्चित्तं । कर्तव्या विधेया । शल्यवर्जितैः निःशल्यैः निदानमिथ्यात्वमायाशल्यविरहितैः सद्भिः ॥ १४० ॥ --- १५५ सौवीरं पानमाम्नातं पाणिपात्रे च पारणे । प्रत्याख्यानं समादाय कर्तव्यो नियमः पुनः ॥ १४१ ॥ सौवीरं - - कांजिकं । पानं-- पेयं । तदा, आम्नातं -- कथितं । तस्य प्राप्तप्रायश्चित्तस्य । पाणिपात्रे च पारणे -- पारणे उपवासावसाने भोजन शौच ? पाणिपात्रे करपुटे भवति । प्रत्याख्यानं - चतुविधाहारनिवृत्तिं । समादाय -- गृहीत्वा । कर्तव्यो नियमः पुनः -- पुनर्भूयश्च, नियमः आवक प्रतिक्रमणं, कर्तव्यो विधातव्यः ॥ १४१ ॥ त्रिसन्ध्यं नियमस्यान्ते कुर्यात्प्राणशतत्रयं । रात्रौ च प्रतिमां तिष्ठेन्निर्जितेन्द्रियसंहतिः ॥ १४२ ॥ त्रिसन्ध्यं --- सन्ध्यात्रये पूर्व मध्यान्हेऽपराह्णे च नियमः कर्तव्यः । नियमस्यान्ते - नियमावसानेऽपि । कुर्यात् — विदध्यात् । प्राणशतत्रयं -- उच्छा सशतत्रयप्रमाणः कायोत्सर्गः करणीयः । रात्रौ च - निशायामपि । प्रतिमां तिष्ठेत् कायोत्सर्गे कुर्यात् । निर्जितेन्द्रियसंहतिः - - संनिरुद्ध पंचेन्द्रियसमूहः सन् ॥ १४२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200