Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रायश्चित्त-चूलिका।
१४३ निषेधिकेति', व्रतानि पंचमहाव्रतानि तेष्वनादरं वितन्वानः । द्वयोरपिकारकोफेक्षकयोः । अविशुद्धित्वात्-सदोषित्वाद्धेतोः । वारणीयःनिषेद्धव्यः । त्रिरात्रतः-दिनत्रयानन्तरम् ॥ ९९ ॥ .... भूरिमृज्जलतः शौचं यो वा साधुः समाचरेत् । ...
.. सोपस्थानोपवासोऽस्य वस्तिवादिकेष्वपि ॥ १०॥ - भूरिमृज्जलतः-प्रचुरमृतिकया बहुपानीयेन च । शौचं-विशुद्धिं । यो वा साधुः वा अथवा, यः साधुर्यो मुनिः । समाचरेत् - (करोति) (वस्तिवादिकेष्वपि)-वमनविरेचनादिचिकित्साकरणे च । (अस्यसाघोः) । सोपस्थानोपवासो-भवति ॥ १०॥ ... चण्डालसंकरे स्पृष्टे पृष्टे देहेऽपि मासिकम् ।
तदेव द्विगुणं भुक्ते सोपस्थानं निगद्यते ॥ १०१॥ चण्डालसंकरे-चाण्डालादिभिः संकरे व्यतिकरे, संस्पृष्टे सति भवति विद्यमाने । पृष्टे देहेपि-शरीरे पृष्टेऽपि उपचिंतेऽपि । मासिकं-पंचकल्याणं प्रायश्चित्तं । ( तदेव ) द्विगुणं भुक्ते-अजानानेन चाण्डालादीनां हस्तेन तद्दर्शने वा अभ्यवहृते सति (तदेव पूर्वोक्तं प्रायश्चित्तं । द्विगुणं ) सोपस्थानं-सप्रतिक्रमणं । निगद्यते--अभिधीयते ॥ १०१॥
असन्तं वाथ सन्तं वा छायाघातमवामुयात् ।
यत्र देशे स मोक्तव्यः प्रायश्चित्तं भवेदपि ॥ १०२॥ ___ असन्तं वा-अविद्यमानं वा । अथ वा सन्तं-सद्भूतं । छायाघातंमाहात्म्यविनाशनं अपमानं । आमुयात्-आलभते । यत्र-यस्मिन् । देशे-विषये । स मोक्तव्यः--स पूर्वोक्तो देशः मोक्तव्यः परिहार्यः (प्रायश्चित्तं भवेदाप)-प्रायश्चित्तं च तथा स्यात् ॥ १०२ ॥ ...१ निषधेति पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/32ac35fcc56253a56d1123561e59d4fb3bf9bb48f77282e2ffd22e298a7e7c74.jpg)
Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200