SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १४३ निषेधिकेति', व्रतानि पंचमहाव्रतानि तेष्वनादरं वितन्वानः । द्वयोरपिकारकोफेक्षकयोः । अविशुद्धित्वात्-सदोषित्वाद्धेतोः । वारणीयःनिषेद्धव्यः । त्रिरात्रतः-दिनत्रयानन्तरम् ॥ ९९ ॥ .... भूरिमृज्जलतः शौचं यो वा साधुः समाचरेत् । ... .. सोपस्थानोपवासोऽस्य वस्तिवादिकेष्वपि ॥ १०॥ - भूरिमृज्जलतः-प्रचुरमृतिकया बहुपानीयेन च । शौचं-विशुद्धिं । यो वा साधुः वा अथवा, यः साधुर्यो मुनिः । समाचरेत् - (करोति) (वस्तिवादिकेष्वपि)-वमनविरेचनादिचिकित्साकरणे च । (अस्यसाघोः) । सोपस्थानोपवासो-भवति ॥ १०॥ ... चण्डालसंकरे स्पृष्टे पृष्टे देहेऽपि मासिकम् । तदेव द्विगुणं भुक्ते सोपस्थानं निगद्यते ॥ १०१॥ चण्डालसंकरे-चाण्डालादिभिः संकरे व्यतिकरे, संस्पृष्टे सति भवति विद्यमाने । पृष्टे देहेपि-शरीरे पृष्टेऽपि उपचिंतेऽपि । मासिकं-पंचकल्याणं प्रायश्चित्तं । ( तदेव ) द्विगुणं भुक्ते-अजानानेन चाण्डालादीनां हस्तेन तद्दर्शने वा अभ्यवहृते सति (तदेव पूर्वोक्तं प्रायश्चित्तं । द्विगुणं ) सोपस्थानं-सप्रतिक्रमणं । निगद्यते--अभिधीयते ॥ १०१॥ असन्तं वाथ सन्तं वा छायाघातमवामुयात् । यत्र देशे स मोक्तव्यः प्रायश्चित्तं भवेदपि ॥ १०२॥ ___ असन्तं वा-अविद्यमानं वा । अथ वा सन्तं-सद्भूतं । छायाघातंमाहात्म्यविनाशनं अपमानं । आमुयात्-आलभते । यत्र-यस्मिन् । देशे-विषये । स मोक्तव्यः--स पूर्वोक्तो देशः मोक्तव्यः परिहार्यः (प्रायश्चित्तं भवेदाप)-प्रायश्चित्तं च तथा स्यात् ॥ १०२ ॥ ...१ निषधेति पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy