SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४४ प्रायश्चित्तसंग्रहे दोषानालोचितान पापो यः साधुः संप्रकाशयेत् । मासिकं तस्य दातव्यं निश्चयोदण्डदण्डनम् ॥ १०३॥ दोषान्-अपराधान् । आलोचितान्-निवेदितान् । पापः-पापिष्ठः । यः-कश्चित् । साधुः- । संप्रकाशयेत्-लोकेभ्यः परिकथयेत् तस्य भदं विदध्यात् । मासिकं तस्य दातव्यं--पंचकल्याणं तस्य साधोदेयं । निश्चयोद्दण्डदण्डनं-निश्चयेन नियमेन, उद्दण्डं उद्धत्तं, दण्डनं प्रायश्चित्तम् ॥ १०३॥ स्वकं गच्छं विनिर्मुच्य परं गच्छमुपाददन् । अर्धनासौ समाच्छेद्यः प्रव्रज्यायाः विसंशयम् ॥ १०४ ॥ स्वकं-स्वकीयं यत्र दीक्षितः तं । गच्छं-गणं । विनिर्मुच्य-परित्यज्य। परं गच्छमुपाददत् - गृह्णन् । अर्द्धनासौ समाछेद्यः प्रवज्यायाःदीक्षाया अख़्शेन, असौ स साधुः, समाछेद्यः खण्डयितव्यः । विसंशयंनिःसन्देहम् ॥ १०४ ॥ यः परेषां समादत्ते शिष्यं सम्यक् प्रतिष्ठितम् । मासिकं तस्य दातव्यं मार्गमूढस्य दण्डनम् ॥ १०५॥ यः-कश्चिदाचार्यः परेषां-अन्येषां साधूनां । समादत्ते-स्वीकरोति । शिष्यं-विनेयमन्तेवासिनं । सम्यक्प्रतिष्ठितं-सम्यग्विधानेन रत्नत्रये व्यवस्थितं । मासिकं तस्य दातव्यं तस्य पूर्वोक्तस्य परशिष्यादायिनः, मासिकं पंचकल्याणं, दातव्यं देयं । मार्गमूढस्य दण्डनं-प्रायश्चित्तम् ॥ १०५॥ ब्राह्मणाः क्षत्रिया वैश्या योग्याः सर्वज्ञदीक्षणे । कुलहीने न दीक्षास्ति जिनेन्द्रोद्दिष्टशासने ॥ १०६ ॥ ब्राह्मणाः-विप्राः । क्षत्रिया:-राजानः । वैश्याः-वणिजः, कृतयुगादिव्यवस्थापितवर्णत्रयसमुत्पन्नाः । योग्याः- उचिता अर्हाः । सर्वज्ञदी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy