SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १३५ मासः-पंचकल्याणं सोपस्थान--सप्रतिक्रमणं भवति । बहुशो वसतिसमारंभग्रामक्षेत्रादिचिन्ताभिधायिनो, मूलं—प्रायश्चित्तं भवति ॥७५॥ ग्रामादीनामजानानो यः कुर्यादुपदेशनम् । जानन् धर्माय कल्याणं मासिकं मूलगः स्मये ॥ ७६ ॥ ग्रामादीनां-ग्रामपुरखेटकर्वटमटंबगृहवसतिप्रभृतिसन्निवेशानां । अजानानःदोषमनवबुद्धयमानः सन् । यो-यतिः । कुर्यात्-विदधाति । उपदेशनं-उपदेशं । जानन्--अवगच्छन्नपि । धर्माय-धर्मार्थ उपदेशं यदि वितनुते तदानीं अजानाने कल्याणं । धर्मकारणे, मासिकं-पंचकल्याणं प्रायश्चित्तं गच्छतीति । मूलगः--मूलं प्रायश्चित्तं गच्छतीति मूलगः । स्मये-गर्वे सति । यदि दर्पण ग्रामायुपदेशनं करोति तदा मूलं प्रायश्चित्तं समश्नुते ॥ ७६ ॥ __ आलोचना तनूत्सर्गः पूजोद्देशेऽप्रबोधने। सोपस्थाना सकृद्देया क्षमा कल्याणकं मुहुः ॥ ७७ ॥ आलोचना- गुरुभ्यः स्वदोषविनिवेदनं । तनूत्सर्ग:-कायोत्सर्गः । पूजोद्देशे-पूजोपदेशने कृते सति । अप्रबोधने-अज्ञे पुरुषे । सोपस्थाना सकृद्देया-आरंभपरिमाणं परिज्ञाय आलोचना वा कायोत्सर्गो वा तावद्यावत्, क्षमा-क्षमणं, सोपस्थाना सप्रतिक्रमणा, सकृदेकदिवसेषु, देया दातव्या । कल्याणकं मुहुः-मुहुः पुनः पुनर्यदि पूजाविधानं देशयति तदानीं कल्याणपंचकं प्रायश्चित्तं दातव्यं भवति ॥ ७७ ॥ जानानस्यापि संशुद्धिः सकृच्चासकृदेव च । सोपस्थानं हि कल्याणं मासिकं मूलमावधे ॥ ७८ ॥ जानानस्यापि दोषमवगच्छतोऽपि पुरुषस्य पूजोपदेशे सति । संशुद्धिःप्रायश्चित्तं भवति । सकृत्--एकवारं । असकृदेव च-अनेकवारमपि। सोप स्थानं हि कल्याणं-सकृत्सोपस्थानं सप्रतिक्रमणं; हि स्फुटं, कल्याणपंचकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy