________________
प्रायश्चित्तसंग्रहे
*A/vvvvvvvvvvvvvvv
भवति । असकृत्, मासिकं-पंचकल्याणं । मूलं--पुनर्दीक्षा भवति । आवधे आ समन्तात् वधे षड्जीवनिकायानां महारम्भे सति ॥ ७८ ।।
सल्लेखनेतरे ग्लाने सोपस्थाना विशोषणा।
अनाभोगेऽथ साभोगे प्रभुक्ते मासिकं स्मृतम् ॥ ७९ ॥ सल्लेखनेतरे ग्लाने--संन्यासे प्रतिष्ठितः सन् यदि क्षत्तृट्परीषहविबाधितस्तस्मिन इतरे, ग्लाने सामान्येनाष्टोपवासपक्षोपवासमासोपवासप्रमुखोपवासविशेषपीरपीडितस्तस्मिंश्च प्रभुक्ते सति । सोपस्थाना-सप्रति. क्रमणा । विशोषणा-उपवासः । अनाभोगे-केनचिदविज्ञाते सति । अथ-अथवा । साभोगे-लोकैः समवबुद्धिः (द्धे)। प्रभुक्ते-भोजने सति । मासिकं-पंचकल्याणं स्मृतम् ॥ ७९ ॥
स्यात् सम्यक्त्वव्रतभ्रष्टैर्विहारे मासिकं क्षमा । जिनादीनामवर्णादौ सोपस्थानाङ्गसंस्कृते ? ॥ ८० ॥ स्यात्-भवेत् । सम्यक्त्वव्रतभ्रष्टैः--सम्यक्त्वपरिच्युतैः पुरुषैः सह, व्रतभ्रष्टैः दुःशीलताकोधमानमायालोभाविनयसंघायशस्कारादित्वादिदोषविशेषदूषितवतैश्च सह । विहार-विहरणे भ्रमणे आचरणे कृते सति । मासिकं-पंचकल्याणप्रायश्चित्तं भवति । क्षमा जिनादीनामवर्णादौ-जिनादीनामर्हत्सिद्धाचार्योपाध्यायसाधूनां, अवर्णादौ असदोषाभिभाषणाविनयशंकाकांक्षादौ उपवासः प्रायश्चित्तं भवति ॥ ८० ॥
निमित्तादिकसेवायां सोपस्थानोपवासनम् ।
सूत्रार्थाविनयाद्येष्वङ्गोत्सर्गालोचने स्मृते ॥ ८१ ॥ निमित्तादिकसेवायां- निमित्तमष्टविधं । उक्तं च
वंजणमंगं च सरं छिन्नं भोमं च अंतरिक्खं च ।
लक्खण सिविणं च तहा अट्टविहं होइ णिम्मितं ॥ इति । तस्व आदिशब्देन वैयकवियामंत्राणामपि उपसेवने समुपजीवने सति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org