________________
प्रायश्चित्तसंग्रहे
भंजने--भंगे सति । स्थिरयोगाना-ध्रुवयोगानां । नमस्कारादिकारणात्-वृक्षमूलादियोगे परिगृहीते सति अत्यन्तमक्षिकुक्षिशिरःशूलविसूचिकासोपसर्गादिकारणवशात् कर्णेजपभेषजप्रभूतनिमित्तात् । दिनमानोपवासः-दिनमानेन दिवसप्रमाणेन, योगभंगे संजाते सति यावन्तोऽद्याफि योगदिवसाः समवतिष्ठन्ते तावन्त उपवासाः । स्युः-भवेयुः । अन्येषां-अपरेषां स्थानमौनावग्रहादीनां योगानां भंगे कथंचित् संजाते सति आलोचनादि प्रायश्चित्तं भवति तावद्यावत्, उपवासनं-उपवासः सोपस्थानो भवति ॥ ७३॥
तत्प्रतिष्ठा च कर्तव्याभ्रावकाशे पुनर्भवेत् ।
चतुर्विधं तपश्चापि पंचकल्याणमन्तिमम् ॥ ७४ ॥ तत्प्रतिष्ठा च-तेषु स्थानमौनावग्रहादिषु योगेषु प्रतिष्ठा च पुनर्व्यवस्थापनमपि । कर्तव्या-करणीया, प्रायश्चित्तं प्रदाय पुनरपि तत्रैव योगे स्थापयितव्य इत्यर्थः । अभ्रावकाशे पुनः-बहिःशयने तु । भवेत् स्यात् । चतुर्विधं-चतुष्प्रकारं प्रायश्चित्तं आलोचना प्रतिक्रमणं उभयं विवेकः, स च द्विविधः स्थानक्वेिको गणविवेश्च । अन्तिम इत्येवमष्टमं भवति, तपस्वी (तपश्चापि )-उपवासाद्यपि भवति पुरुमंडलनिर्विकृत्येकस्थानाचाम्लक्षमणकल्याणषष्ठाष्टामदशमद्वादशादि तावद्यावत्, पंचकल्याणंमासिकं । अन्तिमं-पश्चिमं भवति ॥ ७४ ॥
सकृदप्रासुकासेवेऽसकृन्मोहादहंकृतेः । क्षमणं पंचकं मासः सोपस्थानं च मूलकम् ॥ ७५॥ सकृत्-एकवारं । अप्रासुकासेवे-त्रसस्थावरायुपहतवसतिप्रभृतिप्रदेशसंसेवने सति । असकृत्-अनेकवारं । मोहात्-स्नेहात् अज्ञानतः । अहंकृतेः-अहंकारात् दर्पात् । क्षमणं-मोहात् स्तोककाले उपवास: प्रायश्चित्तं भवति । बहुशः, पंचकं-कल्याणं । दर्पात् स्तोककालं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org