________________
प्रायश्चित्त-चूलिका।
१३३
च्छासप्रमाणः । सकृत्-एतदेकवारे प्रायश्चित्तं । भूयः क्षमणं-भूयः पुनः पुनः भंगविशेषे सति पुरुमंडलनिर्विकृत्यैकस्थानाऽऽचाम्लानि भवन्ति तावद्यावत्सर्वोत्कृष्टभंगे सति क्षमणमुपवासः सोपस्थानं प्रायश्चित्तं भवति । मूलमन्यतः-अन्यतः अन्येषु मूलगुणेषु पंचमहाव्रतेषु षडावश्यकेषु आचेलक्येऽस्नाने स्थितिभोजने एकभक्त इत्येतेषु सर्वेषु भंगे सकृत् सोपस्थानं क्षमणं प्रायश्चित्तं भवति । तदेवासकृदहंकाराप्रयत्नास्थिरादिषु पुरुष. विशेषात्प्रवर्धमानं षष्ठाष्टमदशमद्वादशोपवासार्धमासमासोपवासषण्माससंद. सरादि ततो भवति, तदनन्तरं दीक्षाच्छेदो दिवसादिप्रायश्चित्तं, ततः सर्वोत्कृष्टं मूलं विशुद्धिर्भवति ॥ ७१ ॥
मूलगुणाः ।
दुमूलातोरणौ स्थास्नू आतापस्तद्वयात्मकः ।
चलयोगा भवन्त्यन्ये योगाः सर्वेऽथवा स्थिराः ॥ ७२ ॥ द्रुमूलातोरणौ स्थास्नू-ट्ठमूलो द्रुममूलः वृक्षमूलो योगः, अतोरणोऽतोरणयोगश्चैतौ द्वावपि योगविशेषौ, स्थास्नू स्थिरौ स्थिरयोगौ भवतः । आतापस्तइयात्मकः-आतापः आतापनयोगः । तद्दयात्मकः चरस्थिरस्वभाको भवति चरोऽपि भवति स्थिरश्च भवति । अस्मिन् देशकाले मयातापनयोगोऽवश्यं विधेय इत्यभिसन्धिनियमितः स्थिरः तद्विपरीतश्चल इति । चलयोगाः-चलयोगविशेषाः । भवन्ति-सन्ति । अन्ये-परेऽभावकाशस्थानमौनादिकाः । योमाः सर्वेऽथवा स्थिराः-अथवान्येन प्रकारेण, सर्वेऽपि निर्विशेषाश्च, योमास्तपोविधयः, स्थिरा ध्रुवा अपरिहार्यत्वात् आतत्परिसमाप्तेः ॥ ७२॥
भंजने स्थिरयोगानां नमस्कारादिकारणात् । दिनमानोपवासाः स्युरन्येषामुपवासना ॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org