SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३२ प्रायश्चित्तसंग्रहे च सेवने भंजने सति । कल्याणं-पंचकं भवति । सकृत्-एकवारं । आख्यातं-अभिहितं । पंचकल्याणं-मासिकं । अन्यथा-अन्येक प्रकारेण असकृदित्यर्थः ॥ ६९ ॥ अस्नानक्षितिशयनदन्तधावनानि । - अस्थित्यनेकसंभुक्तेऽदर्प दर्षे सकृन्मुहुः। कल्याणं मासिकं छेदः क्रमान्मूलं प्रकाशतः ॥ ७० ॥ अस्थित्यनेकसभुक्ते-संभोजनं भक्तिः, अस्थितिरनूलभावः तया अस्थित्या संभोजनं, न एकं अनेकं अनेकं च तच्च संभुक्तं चानेकसंभुक्तं अनेक वारभोजनं, तस्मिन्नस्थितिभोजनेऽनेकभक्ते च सति ।अद-अगर्वे ।दअहंकारे। सकृत्-एकवारं । मुहुः-पुनः । कल्याणं-पंचकं अनहंकारे सकृत् । असकृन्मासिकं । दर्पतः सकृत् प्रवज्याच्छेदः । असकृत, क्रमात्क्रमेण, मूलं-पुनर्दीक्षा । प्रकाशतः-प्रकाशात् साभोगेन लोकानामवलोकमानानां स्थितिभुक्तैकभक्तमूलगुणयोर्भगे प्रायश्चित्तं भवति ॥ ७० ॥ . स्थितिभोजनकभक्ते। समितीन्द्रियलोचेषु भूशयेऽदन्तघर्षणे। कायोत्सर्गः सकृद्भूयः क्षमणं मूलमन्यतः ॥ ७१ ॥ समितीन्द्रियलोचेषु--समितिषु ईयीभाषेषणादाननिक्षेपणप्रतिष्ठापनसमितिषु, इन्द्रियेषु स्पर्शनरसनघ्राणचक्षुःश्रोत्रेषु, लोचे बालोत्पाटे । भूशये-भूमिशयने । अदन्तघर्षणे-अदन्तधावने मूलगुणेषु च । सर्वेष्वेतेषु मूलगुणेषु संक्लेशादिदोषविशेषे समुत्पन्ने सति अतिस्तोके मिथ्याकारः ततोऽधिके स्वनिन्दा, ततोऽपि गर्दा, ततश्चालोचना, ततो लघुकायोत्सर्गः, ततो मध्यमकायोत्सर्गः, ततः प्रवर्धमानस्तावद्यावन्महाकायोत्सर्गोष्टोत्तरशतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy