Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 147
________________ ११८ प्रशमरतिप्रकरणम् शासनसामर्थ्येन तु सन्त्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं तच्चैतत् सर्वविद्वचनम् ॥१८८॥ जीवाजीवाः पुण्यं पापाश्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नवपदार्थाः ॥१८९॥ (१८८) टीका-१यतः-शासनेत्यादि । शासनसामर्थ्येन तु अनुशानसमर्थमिदं द्वादशाङ्गं प्रवचनमतस्तेन शासनसामर्थ्येन संसारस्वभावमनुवदता तद्विपरीतं च मोक्षमार्ग दर्शयता निराबाधं परिरक्षता च शरणागतान् प्राणिनोऽनवद्येनोपायेन कश्चित् परिरक्षत्यन्यानुपघ्नन्,३ तथेदं शासनं न कस्यचिदुपघातकम् । युक्तमिदं प्रतिबद्धम्, यतः शास्त्रमुक्तेनार्थद्वयेन । तच्चैतच्छास्त्रं सर्वविदः सर्वज्ञस्य वचनमर्थद्वारेण क्षीणाशेषरागद्वेषमोहस्य नान्यस्येति ॥१८८॥ (१८९) टीका-तदेव सर्वज्ञवचनमुद्देशतो दर्शयन्नाह-जीवाजीवा पुण्यमित्यादि । जीवा इति सम्भवन्तः प्राणभाज उक्ताः । ते च द्रव्यभावभेदेन प्राणा द्विप्रकाराः। तत्र द्रव्यप्राणाः १पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्छासनिःश्वासबलं तथायुरिति' ( )। भावप्राणास्तु ज्ञानदर्शनोपयोगाख्याः । एभिः प्राणैरजीविषुर्जीवन्ति जीविष्यन्ति चेति जीवाः । तद्विपरीतास्त्वजीवाः । पुण्यं सातादिद्विचत्वारिंशत्कर्मप्रकृतयः । पापं व्यधिकाशीतिः कर्मभेदानाम् । आश्रवः कायवाङ्मनोभिः कर्मयोग आत्मनः । एषामेवाश्रवाणां निरोधः संवरः। सह निर्जरणेन सनिर्जरणाः । निरुद्धष्वाश्रवद्वारेषु गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचरणयुक्तस्य तपोऽनुष्ठानात् कर्मनिर्जरणं भवतीति । मिथ्यादर्शनादयो बन्धहेतवः । तद्योगात् सकषायः सन्नात्मा कर्मणो ३योग्यान् दलानादत्ते स बन्धः । बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मक्षयो (१८८) (वि०) शासनस्य-शिक्षणस्य सामर्थ्य-बलिष्ठता तेन । तुरवधारणे । सन्त्राणस्यपालनस्य बलं-सामर्थ्यं तेन । चः समुच्चये। उभयेन कथम्भूतेन ?-अनवद्येन-निर्दोषेण, युक्तं-सहितं यत्किमपि तच्छास्त्रम्, उच्यत इति शेषः । तच्च शास्त्रमेतत्-जगत्प्रसिद्धं सर्वविद्वचनंजिनोक्तमिति ॥१८८।। इति कथाधिकारः ॥११॥ (१८९) (वि०) इदमेव वचनं सझेपत आह-जीवाजीवा इति । जीवाःचैतन्यलक्षणाः १ अजीवा-धर्मास्तिकायादयः २ अत्र द्वन्द्वः, पुण्यं वक्ष्यमाणं ३ पापमपि ४, (१८८) (अव०) शासनस्य' शिक्षणस्य सामर्थ्य बलिष्ठतानेन सन्त्राणस्य पालनस्य बलेन च उभयेन सहितं यत्तच्छास्त्रमुच्यते सिद्धान्तः, संसारभावमनुवदतां मोक्षं दर्शयतां सर्वविदामेतद्वचनम् ॥१८८॥ (१८९) (अव०)-बन्धः कर्मोपादानं, मोक्षः कर्माभावः ॥१८९॥

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333