Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 243
________________ २१४ प्रशमरतिप्रकरणम् चरमे समये सङ्ख्यातीतान् विनिहत्य चरमकर्मांशान् । क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥२८६॥ सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥२८७॥ देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ॥२८८॥ सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिद्धयति साकारेणोपयोगेन ॥२८९॥ सादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः ॥२९०॥ मुक्तः सन्नाभावः स्वालक्षण्यात् स्वतोऽर्थसिद्धेश्च । भावान्तरसङ्क्रान्तेः सर्वज्ञाज्ञोपदेशाच्च ॥२९१॥ त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च ॥२९२॥ नाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥२९३॥ योगप्रयोगयोश्चाभावात्तिर्यङ् न तस्य गतिरस्ति । सिद्धस्योर्ध्वं मुक्तस्यालोकान्ताद् गतिर्भवति ॥२९४॥ पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योर्ध्वं गतिः सिद्धा ॥२९५॥ देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात् तदभावे सिद्धं सिद्धस्य सिद्धिसुखम् ॥२९६॥ यस्तु यतिर्घटमानः सम्यक्त्वज्ञानशीलसम्पन्नः । वीर्यमनिगूहमानः शक्त्यनुरूपप्रयत्नेन ॥२९७॥ संहननायुर्बलकालवीर्यसम्पत्समाधिवैकल्यात् । कर्मातिगौरवाद्वा स्वार्थमकृत्वोपरमेतेति ॥२९८॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु ।। स भवति देवो वैमानिको महद्धिद्युतिवपुष्कः ॥२९९॥ तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात् तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसङ्ग्रेषु ॥३००॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः । श्रद्धा-सम्यक्त्व-ज्ञान-संवर-तपोबलसमग्रः ॥३०१॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः । सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभवभावात् ॥३०२॥

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333