________________
२१४
प्रशमरतिप्रकरणम्
चरमे समये सङ्ख्यातीतान् विनिहत्य चरमकर्मांशान् । क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥२८६॥ सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥२८७॥ देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ॥२८८॥ सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिद्धयति साकारेणोपयोगेन ॥२८९॥ सादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः ॥२९०॥ मुक्तः सन्नाभावः स्वालक्षण्यात् स्वतोऽर्थसिद्धेश्च । भावान्तरसङ्क्रान्तेः सर्वज्ञाज्ञोपदेशाच्च ॥२९१॥ त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च ॥२९२॥ नाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥२९३॥ योगप्रयोगयोश्चाभावात्तिर्यङ् न तस्य गतिरस्ति । सिद्धस्योर्ध्वं मुक्तस्यालोकान्ताद् गतिर्भवति ॥२९४॥ पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योर्ध्वं गतिः सिद्धा ॥२९५॥ देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात् तदभावे सिद्धं सिद्धस्य सिद्धिसुखम् ॥२९६॥ यस्तु यतिर्घटमानः सम्यक्त्वज्ञानशीलसम्पन्नः । वीर्यमनिगूहमानः शक्त्यनुरूपप्रयत्नेन ॥२९७॥ संहननायुर्बलकालवीर्यसम्पत्समाधिवैकल्यात् । कर्मातिगौरवाद्वा स्वार्थमकृत्वोपरमेतेति ॥२९८॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु ।। स भवति देवो वैमानिको महद्धिद्युतिवपुष्कः ॥२९९॥ तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात् तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसङ्ग्रेषु ॥३००॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः । श्रद्धा-सम्यक्त्व-ज्ञान-संवर-तपोबलसमग्रः ॥३०१॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः । सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभवभावात् ॥३०२॥