________________
परिशिष्ट - १, प्रशमरतिः मूलम्
शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं सम्प्राप्तः केवलं ज्ञानम् ॥२६९॥ कार्याल्लोकालोके व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्यगुणपर्यायाणां ज्ञाता दृष्टा च सर्वार्थैः ॥२७०॥ क्षीणचतुष्कर्मांशो वेद्यायुर्नामगोत्रवेदयिता । विहरति मुहूर्तकालं देशोनां पूर्वकोटिं वा ॥२७१॥ तेनाभिन्नं चरमभवायुर्दुर्भेदमनपवर्तित्वात् । तदुपग्रहं च वेद्यं तत्तुल्ये नामगोत्रे च ॥ २७२॥ यस्य पुनः केवलिनः कर्म भवत्यायुषो ऽतिरिक्ततरम् । स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम् ॥२७३॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ २७४॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२७५॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ २७६ ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ २७७॥ स समुद्घातनिवृत्तोऽथ मनोवाक्काययोगवान् भगवान् । यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ॥२७८॥ पञ्चेन्द्रियोऽथ सञ्ज्ञी य: पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं ततोऽप्यसङ्ख्यातगुणहीनम् ॥ २७९॥ द्वीन्द्रियसाधारणयोर्वागुच्छ्वासावधो जयति तद्वत् । पनकस्य काययोगं जघन्यपर्याप्तकस्याधः ॥ २८० ॥ सूक्ष्मक्रियमप्रतिपाति काययोगोपगस्ततो ध्यात्वा । विगतक्रियमनिवर्तित्वमुत्तरं ध्यायति परेण ॥२८१ ॥ चरमभवे संस्थानं यादृग् यस्योच्छ्रयप्रमाणं च । तस्मात् त्रिभागहीनावगाहसंस्थानपरिणाहः ॥ २८२ ॥ सोऽथ मनोवागुच्छ्वासकाययोगक्रियार्थविनिवृत्तः । अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः ॥२८३॥ ईषद्ह्रस्वाक्षरपञ्चकोगिरणमात्रतुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः ॥ २८४॥ पूर्वरचितं य तस्यां समय श्रेण्यामथ प्रकृतिशेषम् । समये समये क्षपयत्यसङ्ख्यगुणमुत्तरोत्तरतः ॥ २८५॥
२१३
२१३