________________
२१२
प्रशमरतिप्रकरणम्
तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥२५२॥ आत्मारामस्य सतः समतृणमणिमुक्तलोष्ठकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥२५३॥ अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्ध्यमानस्य । चारित्रशुद्धिमय्यामवाप्य लेश्याविशुद्धिं च ॥२५४॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । शुद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥२५५॥ सातद्धिरसेष्वगुरुः सम्प्राप्य विभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे न भजति तस्यां मुनिः सङ्गम् ॥२५६॥ या सर्वसुरवरद्धिर्विस्मयनीयाऽपि साऽनगारद्धेः । नार्घति सहस्रभागं कोटिशतसहस्रगुणितापि ॥२५७॥ तज्जयमवाप्य जितविघ्नरिपुर्भवशतसहस्रदुष्प्रापम् । चारित्रमथाख्यातं सम्प्राप्तस्तीर्थकृत्तुल्यम् ॥२५८॥ शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥२५९॥ पूर्वं करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२६०॥ सम्यक्त्वमोहनीयं क्षपयत्यष्टावतः कषायांश्च । क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥२६१॥ हास्यादि ततः षट्कं क्षपयति तस्माच्च पुरुषवेदमपि । सज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम् ॥२६२॥ सर्वोद्धातितमोहो निहतक्लेशो यथा हि सर्वज्ञः । भात्यनुपलक्ष्यराद्वंशोन्मुक्तः पूर्णचन्द्र इव ॥२६३॥ सर्वेन्धनैकराशीकृतसन्दीप्तो ह्यनन्तगुणतेजाः । ध्यानानलस्तपःप्रशमसंवरहविर्विवृद्धबलः ॥२६४॥ क्षपकश्रेणिमुगपत: स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसङ्क्रमः स्यात् परकृतस्य ॥२६५॥ परकृतकर्मणि यस्मान्न क्रामति सङ्क्रमो विभागो वा । तस्मात् सत्त्वानां कर्म यस्य यत्तेन तद्वद्यम् ॥२६६॥ मस्तकसूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशः । तद्वत् कर्मविनाशो हि मोहनीयक्षये नित्यम् ॥२६७॥ छद्मस्थवीतरागः कालं सोऽन्तर्मुहूर्तमथ भूत्वा । युगपद् विविधावरणान्तरायकर्मक्षयमवाप्य ॥२६८॥