________________
परिशिष्ट - १, प्रशमरतिः मूलम्
स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥२३५॥ प्रशमाव्याबाधसुखाभिकाङ्क्षिणः सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ॥२३६॥ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न च व्ययप्राप्तम् ॥२३७॥ निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ २३८॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागद्वेषात्मकानि दुःखानि संसारे ॥२३९॥ स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरव्यथितो यः स नित्यसुखी ॥ २४० ॥ धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा । सुखमास्ते निर्द्वन्द्वो जितेन्द्रियपरीषहकषायः ॥२४१॥ विषयसुखनिरभिलाषः प्रशमगुणगणाभ्यलङ्कृतः साधुः । द्योतयति यथा सर्वाण्यादित्यः सर्वतेजांसि ॥२४२॥ सम्यग्दृष्टिर्ज्ञानी विरतितपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते ॥ २४३॥ सम्यगष्टिर्ज्ञानी विरतितपोध्यानभावनायोगैः । शीलाङ्गसहस्त्राष्टादशकमयनेन साधयति ॥२४४॥ धर्माद्भूम्यादीन्द्रियसञ्ज्ञाभ्यः करणतश्च योगाच्च । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥२४५॥ शीलार्णवस्य पारं गत्वा संविग्नसुगमपारस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्येोग्यम् ॥२४६॥ आज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ॥२४७॥ आप्तवचनं प्रवचनं चाज्ञाविचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्येष्वपायस्तु ॥ २४८ ॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ २४९॥ जिनवरवचनगुणगणं सञ्चिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान् संस्थानविधीननेकांश्च ॥२५०॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ॥२५१॥
२११
२११