________________
परिशिष्ट-१, प्रशमरतिः मूलम्
२१५
यश्चेह जिनवरमते गृहाश्रमी निश्चित: सुविदितार्थः । दर्शन-शील-व्रतभावनाभिरभिरञ्जितमनस्कः ॥३०३॥ स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्व्रतमिह देशावकाशिकमनर्थविरतिं च ॥३०४॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिना पात्रेषु विनियोज्यम् ॥३०५॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः ॥३०६॥ प्रशमरतिनित्यतृषितो जिन-गुरु-साधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥३०७॥ प्राप्तः कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥३०८॥ नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥३०९॥ इत्येवं प्रशमरतेः फलमिह स्वर्गापवर्गयोश्च शुभम् । सम्प्राप्यतेऽनगारैरगारिभिश्चोत्तरगुणाढ्यैः ॥३१०॥ जिनशासनार्णवादाकृष्टां धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥३११॥ सद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं प्रशमसुखायैव यतितव्यम् ॥३१२॥ यच्चासमञ्जसमिह छन्दःशब्दसमयार्थतो मयाभिहितम् । पुत्रापराधवत्तन्मर्षयितव्यं बुधैः सर्वम् ॥३१३॥ सर्वसुखमूलबीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधनधनमर्हच्छासनं जयति ॥३१४॥
२१५