Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 215
________________ १८६ प्रशमरतिप्रकरणम् स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्व्रतमिह देशावकाशिकमनर्थविरतिं च ॥३०४॥ दर्शनादिभिरभिरञ्जितं वासितं मनो यस्य स भवति अभिरञ्जितमनस्कः ॥३०३।। टीका-स्थूलवधेत्यादि । स्थूलात्प्राणातिपाताद्विरतिः प्रथममनुव्रतम् । स्थूला बादरा प्राणिनो ये तेभ्यो विरतिस्तेषामवधः, न सूक्ष्मेभ्यो विरतिः पृथिव्यादिकायेभ्यः । अथवा सङ्कल्पजः स्थूलस्तस्माद्विरतिः । सङ्कल्पं हृदि व्यवस्थाप्य व्यापादयामीति स्थूलप्राणातिपातस्तस्माद्विरतिः प्रथममनुव्रतम् । न पुनरारम्भजाद्विरतिरिति । स्थूलमनृतं यन्निरोधपूर्वकमादित्यमण्डलाधिरोहणे सत्यन्यथा वृत्तमन्यथा भाषते, तस्माद्विरतिः, न परिहासादिभाषणात् । चौर्यमदत्तस्यादानं स्थूलं, यस्मिन्नपहृते २चौर्य इति व्यपदिश्यते, तत्स्थूलं तस्माद्विरतिः । परस्त्रीति । स्वदारसन्तोषव्रतस्य परपरिगृहितस्त्रीगमनं वेश्यापरिभोगो वा स्थूलं तस्माद्विरतिः । परदारनिवृत्तिव्रतस्य तु परपरिगृहितस्त्रीपरिहारः, न तु वेश्यापरिहारः । रत्यरतिभ्यां वर्जितस्त्यक्तः । सततं सर्वदा रतिविषयेषु प्रीतिः, अरतिरुद्वेगः व्रतपरिपालनादिक्रियास्विति । क्षेत्रवस्त्वादिष्विच्छा तस्याश्च परिमाणं व्रतं, 'एतावन्ति ५क्षेत्राणि वस्तूनि हिरण्यं सुवर्णमेतावत् तथा ६धनधान्यं कटाहादि चोपस्करजातं सर्वं परिमितं धार्यम्' इति । परिमाणादुपरि स्थूलं तस्माद्विरतिरनुव्रतम् साक्षादनुपात्तमपि शेषव्रतग्रहणादाक्षिप्तं द्रष्टव्यम् । रात्रिभोजनविरतिश्च यथाशक्तीति । दिग्वतं चतसृषु दिक्षु ऊर्ध्वमधश्च गमनपरिमाणम् । एतावद् गन्तव्यं न परत' इति परतो गमनाद्विरतिः चतुर्मास्यादिषु सकृद् गृह्णाति । तथा देशावकाशिकं व्रतं 'प्रतिदिवसं ममे यति मर्यादा गमनस्य' इति, तस्यैव सकृद्गृहितव्रतस्य देशेऽवकाशं कल्पयति देशावकाशिकं व्रतम् । अनर्थदण्डविरतिव्रतं प्रयोजनाभावोऽनर्थः विना प्रयोजनेनात्मानं दण्डयति अग्निशस्त्रादिप्रदानादिनाऽनेकभेदेन तस्माद्विरतिव्रतम् ॥३०४॥ दर्शनादि-भावनाभिः प्रतीतार्थाभिः कृतद्वन्द्वाभिरिति ।।३०३।। (३०४) (वि०) तथा स्थूलानि च तानि वधानृतचौर्याणि कृतद्वन्द्वानि च तानि तथा, तानि च परस्त्रीरत्यरती च तास्तथा, ताभिर्वर्जितः स तथा, उपलक्षणत्वात् परिग्रहवर्जित इति च दृश्यम् । सततं-अनवरतं, तथोक्-उपरिष्टादणुव्रतेभ्यः दिग्व्रतं देशावकाशिकमनर्थविरतिं चेति ॥३०४।। (३०४) (अव० )-१स्थूलानियतानि वधादीनि वा रत्यरती शुभाऽशुभवस्तुनि । एतावता परिग्रहः । ताभीरत्यरतीभिर्वर्जितः परिग्रहवर्जित इत्यर्थः । सततं अनवरतम् । तत ऊर्ध्वमुपरिष्टादणुव्रतेभ्यो दिग्व्रतादि ॥३०४॥

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333